SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सारस्वतव्याकरणम् । [वृत्तिः२ ववृट्वे । त्रियात् वरिषीष्ट । ईटो ग्रहाम् (सू० ८२१) वरीषीष्ट । वरिता वरीता २ । वरिष्यति वरीष्यति । वरिष्यते वरीष्यते । अवरिष्यत् अवरीष्यत् । अवरिष्यत अवरीष्यत । अवारीत् अवरिष्ट अवरीष्ट अवृत । धूञ् कम्पने । धूनोति धूनुते । धूनुयात् धून्वीत । धूनोतु धूनुताम् । अधूनोत् अधूनुत । दुधाव दुधुवे । धूयात् धविषीष्ट-धोषीष्ट ॥ ९८४ स्वरतिसूतिसूयतिधृवधादीनां वा ७ ॥ धविता धोता । धविष्यति धोष्यति । अधविष्यत् अधोष्यत् । अधावीत् । अधविष्ट अधोष्ट ॥ ॥ इति खादिषूभयपदिनः॥१३॥ खादिषु परस्मैपदिनः १४ ॥ अथ परस्मैपदिनः ॥ ॥ हि गतौ वृद्धौ च । हिनोति ।। ९८५ द्विरुक्तस्य हिनोतेः कुत्वं वाच्यम् १॥ जिघाय । हीयात्। हेता । हेष्यति । अहेष्यत् । अहैषीत् । शक्ल शक्तौ । शक्नोति । शशाक । लोपः पचां कित्ये चास्य (सू० ७६२) शेकतुः शेकुः । शक्यात् । शक्ता । शक्ष्यति । अशक्ष्यत् । अशकत् । घिवि प्रीतौ । इदित (सू० ७४५) इति नुम् ॥ ९८६ धिन्विकृण्व्योर्नोलोपो वाच्यः २ ॥ चतुषु ॥ ९८७ यवयोर्वसे हकारे च लोपः ३ ॥ धिनोति । धिनुयात् । धिनोतु । अधिनोत् दिधिन्व । धिन्व्यात् । धिन्विता । धिन्विष्यति । अधिन्विष्यत् । अधिन्वीत् । कृवि हिंसायाम् । कृणोति । चकृण्व । धिनोतिवत् । श्रु श्रवणे ॥९८८ श्रुवः शृ४ ॥ श्रुवः शृ भवति चतुएं परेषु ॥ शृणोति । शुश्राव । शुश्रोथ । श्रूयात् । श्रोता । श्रोष्यति । अश्रोष्यत् । अश्रौषीत् ॥ ॥ इति खादिषु परस्मैपदिनः ॥ १४ ॥
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy