SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ सू० ९८९-९९५] रुधादिषूभयपदिनः १६ १८१ जुहोत्यादिषु आत्मनेपदिनः १५ 1 ॥ अथात्मनेपदिनः ॥ अशूङ् व्याप्तौ । ऊङावितौ । अश्नुते । अश्नुवीत् । अश्नुताम् । आनुत । नुगशाम् (सू० ७६४ ) । आभ्वो - र्णादौ (सू० ७१२) आनशे । ऊदितो वा (सू० ७५१ ) अशिषीष्ट । अक्षीष्ट । अशिता - अष्टा । अशिष्यते - अक्ष्यते । आशिष्यतआक्ष्यत । आशिष्ट- आष्ट आक्षाताम् आक्षत् ॥ ॥ इति खादिष्वात्मनेपदिनः ॥ १५ ॥ इति नुविकरणाः खादयः ॥ रुधादिषूभयपदिनः १६ ॥ अथ रुधादयः ॥ तत्रादावुभयपदिनः । रुधिरावरणे । इरित् ॥ ९८९ रुधादेर्नम् १ ॥ रुषादेर्गणान्नम् प्रत्ययो भवति चतुर्षु परेषु ॥ अपोऽपवादः । मकारः स्थाननियमार्थः । णत्वम् । तथोर्ध: ( सू० ७५३ ) रुणद्धि । नमसोऽस्य ( सू० ८९९ ) ॥ ९९० हसात् झसस्य सवर्णे झसे लोपो वाच्यः २ ॥ रुन्धः । रुन्धन्ति । रुणत्सि रुन्धः रुन्ध | रुणध्मि रुन्ध्वः रुन्ध्मः । रुन्धे रुन्धाते रुन्धते । रुन्ध्यात् । रुन्धीत । रुणद्धु रुन्धाम् । अरुणत्-अरुदू | अरुन्ध । रुरोध रुरुधतुः रुरुधुः । रुरोधिथ । रुरुधे रुरुधाते । रुध्यात् । रुत्सीष्ट । रोद्धा २ । रोत्स्यति रोत्स्यते । अरोत्स्यत् अरोत्स्यत । अनिटो नामिवतः ( सू० ७५४ ) अरौत्सीत् । सिस्योः (सू० ८५८) अरुद्ध अरुत्सातां अरुत्सत । इरितो वा (सू० ७४० ) अरुधत् । उच्छृदिर् दीप्तिदेवनयोः । उशरावितौ । छृणत्ति छन्तः छन्दन्ति । छन्ते । घृन्द्यात् । छन्दीत । छृणत्तु छृन्ताम् | अच्छृणत् अच्छृणद् ॥ ९९९ दुः सः ३ || दकारस्य वा सकारो भवति सिपि विषये || अच्छृणः । अच्छृणत् अच्छृन्तम् अच्छृन्त । T
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy