SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सू० ९७९-९८८ ] स्वादिषूभयपदिनः १३ १७९ ९७९ नूपः २ ॥ विकरणस्य नुप्रत्ययस्य उप्प्रत्ययस्य च गुणो भवति पिति परे ॥ सुनोति सुनुतः । नु धातोः ( सू० ७७६ ) सुन्वन्ति । सुनोषि सुनुथः सुनुथ । सुनोमि ॥ ९८० उर्वमोर्वा लोपः ३ || असंयोगादुत्तरस्य प्रत्ययसंबन्धिन उकारस्य वा लोपो भवति वमोः परयोः । सुनुवः-सुन्वः । सुनुमः- सुन्मः । सुनुते सुन्वाते सुन्वते । सुनुयात् सुन्वीत । सुनोतु सुनुताद्वा सुनुताम् सुन्वन्तु ॥ ९८१ ओर्वा है : ४ ॥ प्रत्ययसंबन्धिन उकारादुत्तरस्य हेर्लुग्भवति ॥ वाग्रहणात्संयोगान्न । तेन तक्ष्णुहि त्वक्ष्णुहीत्यत्र न । सुनु सुनुतात् । सुनवानि । सुनुताम् । असुनोत् असुनुत । सुषाव सुषुवतुः । सुषविथ-सुषोथ सुषुवे । सूयात् सोषीष्ट । सोता २ । सोष्यति सोष्यते । असोष्यत् असोष्यत ॥ स्तुसुधूञां पे सेरिड्डा वक्तव्यः (सू० ९३०) असावीत् असौषीत् दुसुस्तुनुधातूना मिड्डेति केचित् । असविष्ट असोष्ट । चिञ् चयने । चिनोति चिनुते । चिनुयात् चिन्वीत । चिनोतु चिनुताम् । अचिनोत् । अचिनुत । ९८२ चिनोतेः सणादौ कित्वं वा वाच्यम् ॥ ५ ॥ चिकाय चिक्यतुः चिक्युः । चिचाय । चिक्ये चिच्ये । चीयात् । चेषीष्ट । चेता २ । चेष्यति-चेष्यते । अचेष्यत् अचेष्यत । अचैषीत् अचेष्ट | स्तृञ् आच्छादने । स्तृणोति स्तृणुते । तस्तार । गुणोर्तिसंयोगाद्योः ( सू० ८१२ ) तस्तरतुः तस्तरुः । तस्तर्थ । तस्तरे । स्तर्यात् ॥ ९८३ संयोगादि ऋदन्तवृवृञां सीस्योरात्मनेपदे इड्डा वक्तव्यः ६ ॥ स्तरिषीष्ट । उः ( सू० ८६४ ) स्तृषीष्ट । स्तर्ता २ स्तरिष्यति - स्तरिष्यते । अस्तरिष्यत् अस्तरिष्यत । अस्तार्षीत् अस्तरिष्ट अस्तृत । वृन् वरणे । वृणोति वृणुते । ववार वत्रतुः वव्रुः । वृणोतेस्थपो नित्यमिट् । ववरिथ वत्रथुः वत्र । ववार ववर ववृव ववृम । वत्रे
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy