________________
सारस्वतव्याकरणम् । [वृत्तिः १ परस्य विसर्जनीयस्य लोपश् भवति हसे परे । सः चरति स चरति । एषः हसति एष हसति । सैषादिसंहिता समासे कृते घटमाना सा
सैष दाशरथी रामः सैष राजा युधिष्ठिरः।
सैष कर्णो महात्यागी सैष भीमो महाबलः ॥ २४ ॥ सैष दाशरथी राम इत्यादौ पादपूरणे संध्यर्था ज्ञेया ॥ ११९ कचिनामिनोऽबे लोपश् १६ ॥ नामिनः परस्य विसर्जनीयस्य लोपश् भवति कचिदबे परे । भूमिः आददे भूम्याददे ॥
यदुक्तं लौकिकायेह तद्वेदे बहुलं भवेत् ।
सेमा भूम्याददे सोषामित्यादीनामदुष्टता ॥२५॥ कचित्प्रवृत्तिः कचिदप्रवृत्तिः कचिद्विभाषा कचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ २६ ॥ वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥ २७ ॥
वर्णागमो गवेन्द्रादौ सिंहे वर्गविपर्ययः । षोडशादौ विकारः स्याद्वर्णनाशः पृषोदरे ॥ २८ ॥ वर्णविकारनाशाभ्यां धातोरतिशयेन यः ।
योगः स उच्यते प्राज्ञैर्मयूरभ्रमरादिषु ॥ २९ ॥ वित्कम्भनेन विस्कम्भनेन । शुनः शेपं चित् शुनश्चिच्छेपम् । पृषत् उदरं पृषोदरम् ॥ १२० आत्खसयोरुः १७ ॥ आकारे खसे च
१ स एष इत्यत्र सैषेत्यष्टाक्षरपदार्था संहिता । २ अनिश्चितविभजनतया । ३ विकल्पः । ४ वैदिकप्रयोगम् । ५ अन्यस्मिन्वर्णेऽन्यस्योच्चारणम् । यथा हि. सिधातोर्हिसशब्दे प्राप्ते सिंह इति । ६ पृषोदरादीनि यथोपदिष्टम् । पृषोदरादीनि सन्दखरूपाणि शिष्टैर्यथोच्चारितानि तथैव साधूनि । यथा वारिवाहको बलाहकः।