________________
सू०१३९८-१४०७] भावाधिकारप्रक्रिया ६
२४९
ऋ गतौ । गुणः । अरुः । चक्षि व्यक्तायां वाचि । चष्टे इति चक्षुः । पिपर्तीति परुः । वपतीति वपुः । तपतीति तपुः । जायते इति जनुः । यजतीति यजुः || १३९८ अवतृस्तृत त्रिकण्ठिभ्य ई१ ३३ ॥ अवतीति अवीः । तरतीति तरीः । स्तृञ् आच्छादने । स्तृणोतीति स्तरीः । तन्त्रि धारणे । कण्ठ अवधारणे । तन्त्रयति वा तन्त्रयते सा तन्त्रीः । कण्ठयतीति कण्ठीः || १३९९ सौकर्ये केलिमः ३४ ॥ सुखेन भिद्यते तत् भिदेलिमं वा भेत्तुं सुकरं भिदेलिमं किम् काष्ठम् । सुखेन पच्यन्ते इति पचेलिमा आढक्यः वा पक्तुं सुकराः पचेलिमाः के । तण्डुलाः ॥
संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्याद्विद्यादनुबन्धमेतच्छास्त्रमुणादिषु ॥ १ ॥ उणादयोऽपरिमिता येषु संख्या न गम्यते । प्रयोगमनुसृत्याद्धा प्रयोक्तव्यास्ततस्ततः ॥ २ ॥ इति कृदन्ते उणादिप्रक्रिया ॥ ५ ॥
भावाधिकारप्रक्रिया ६
१४०० तुम् तदर्थायां भविष्यति १ ॥ धातोर्भविष्यति काले तुम् प्रत्ययो भवति तदर्थायां क्रियायां प्रयुज्यमानायाम् ॥ भुज पालनाभ्यवहारयोः । भोक्ष्यतीति भोक्तुं व्रजति । पठिष्यतीति पठितुं ईष्टे । स्तोष्यतीति स्तोतुं ईहते । स्थातुं ईहते ॥ १४०१ तुमर्थे वुण् वक्तव्यः २ ॥ द्रक्ष्यतीति द्रष्टुम् कृष्णं द्रष्टुं व्रजति । कृष्णदर्शको व्रजति ॥ १४०२ कालसमयवेलासु तुम् ३ ॥ भोक्तुं कालः । अध्येष्यतीति अध्येतुं समयः । स्तोष्यतीति स्तोतुं वेला ॥
1