SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २५० सारस्वतव्याकरणम् । [वृत्तिः३ १४०३ घन भावे ४ ॥ धातो वे घञ् प्रत्ययो भवति ॥ चजोः कगौ घिति (सू० १३५७) पच्यते तत् पचनं पाकः । त्यज् वयोहानौ । त्यज्यते तत् त्यजनं त्यागः । भज्यते तत् भजनं भागः । इज्यते तत् यजनं यागः । विभज्यते तत् विभजनं विभागः । युजिर योगे। अनुप्रयुज्यतेऽसौ अनुप्रयोगः । अनूच्यते तत् अनुवचनं अनुवाकः । इण् गतौ नन्दादित्वाद्युः । ततोऽनादेशः। गुणः वृद्धिः । अयनं आयः । भूयते तत् भवनं भावः । आतो युक् (सू० ११९२ ) दीयते तत् दानं दायः । पानं पायः ॥ १४०४ भावे करणेऽर्थे पनि रञ्जर्नलोपो वाच्यः ५॥ रज्यते अनेनेति रञ्जनं वा रागः । भावे किम् । रज्यतेऽस्मिन्निति रङ्गः । रभ राभस्ये ।। १४०५ रभलभोः स्वरेणाद्यपी विना नुम् वाच्यः ६॥ आरम्भः । अञ्च गतिपूजनयोः । परितो अञ्चतीति प्राङ्कः ॥ १४०६ संज्ञायामकर्तरि च ७ ॥ धातोः कर्तृवर्जिते कारके भावे कर्मणि च घञ् प्रत्ययो भवति संज्ञायां विषये ॥ कार्य कार्य प्रति आहियते इति प्रत्याहारः । दीयते अस्मिन् इति दायः । पीयते अस्मिन् इति पायः । विक्रियते अनेनेति विकारः । मृजूष शुद्धौ । अपामृज्यते अनेनेति अपामार्गः । लिख आलेखने । लिख्यतेऽस्मिन्निति लेखः। आचर्यतेऽसिन्निति आचारः । उपाधीयतेऽस्मादिति उपाध्यायः ॥ १४०७ स्वरादः ८॥ इउऋवर्णान्तेभ्यो धातुभ्यः अः प्रत्ययो भवति भावादौ॥ धनोपवादः । संचीयतेऽसौ संचयः। चयनं चयः । जीयते इति जयः । नीयते तत् नयनं नयः । उन्नीयते इति उन्नयः । नूयते तत् नवनं नवः । लवनं लवः । स्तूयते तत् स्तवनं स्तवः । कृ विक्षेपे । कीर्यते इति करः । न विक्षेपे । त्रियते विक्षिप्यते कामादिभिरिति नरः । पिञ् बन्धने । विशेषेण सीयते जनयोः । कर्तृवाज कार्य प्र
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy