________________
सू० १४०८-१४२२] भावाधिकारप्रक्रिया ६ २५१ वध्यते अनेनेति विषयः ॥ १४०८ मदामः ९॥ मदादीनां अः प्रत्ययो भवति भावादौ कर्तृवर्जिते ॥ मदी हर्षे । मद्यते तत् मदनं मदः । प्रमद्यते अनेनेति प्रमदः । प्रमद्यते पुरुषोऽनया सा प्रमदा । पण्यते तत् पणनं पणः । शमु दमु उपशमे । शम्यतेऽसौ शमः । दमनं दमः । श्रम खेदे । श्रम्यते इति श्रमः । भ्रमः । यमु उपरमे । यम्यते इति यमः । दीव्यति विश्वमनेनेति देवः । जङ्गम्यतेऽसौ जङ्गमः । हिसि हिंसायाम् ॥ १४०९ सिंहे वर्णविपर्ययश्च १०॥ चकारादः प्रत्ययः । हिनस्तीति सिंहः ॥ १४१० मृतौ घनः ११ ॥ मूर्ती काठिन्ये परिच्छेदेऽर्थे चाभिधेये हन्तेरः प्रत्ययो भवति भावादौ हन्तेर्घनादेशश्च ॥ दधिकाठिन्यं हन्यते इति दधिधनः । परिच्छिन्नं सैन्धवं हन्यते इति सैन्धवघनः ॥ १४११ हनो वधादेशश्चाप्रत्ययः १२ ॥ हन्यते इति वधः ॥ १४१२ द्वितोऽथुः १३ ॥ द्वितो धातोरथुः प्रत्ययो भवति भावादौ ॥ टुवेतृ कम्पने । वेप्यते अनेनेति वेपथुः । टुनदि समृद्धौ । नन्द्यते अनेनेति नन्दथुः । टुवप् बीजतन्तुसन्ताने। उप्यते इति वपथुः । टुक्षेप क्षेपणे । क्षेप्यते अनेनेति क्षेपथुः । टुओश्वि गतिवृद्ध्यौः । श्वयथुः । टुक्षु शब्दे । थूयते इति क्षक्थुः । टुवम् उद्गिरणे । वमथुः ॥ १४१३ ड्डितस्त्रिमा १४ ॥ द्वितो धातोस्त्रिमा प्रत्ययो भवति तेन धात्वर्थन कृतेऽर्थे वाच्ये सति ॥ क्रियया निवृत्तः कृत्रिमः घटः । संभारेण संभृतं वा निर्वृत्तं संभृत्रिम युद्धम् । पाकेन निर्वृत्तं पक्रिमं फलम् । याचनेन निर्वृत्तं याचित्रिमं किम् । विप्रधनम् ॥१४१४ न ङ्की १५॥ धातोर्नकी इत्येतौ भवतः भावादौ ॥ १४१५ यज़ याचू यत विच्छ प्रच्छ स्वपू एभ्यो नङ् प्रत्ययो भवति १६ ॥ स्तोः श्चुभिः श्चुः (सू० ६) असंप्र