________________
२४८
सारस्वतव्याकरणम् ।
[वृत्तिः३
जस्शसोर्लक् (सू० २६४) पञ्चतीति पञ्च । षप् संबन्धे । षप् गणने । अशूङ व्याप्तौ ॥ १३८८ षपेरशेः किति तुग वक्तव्यः २३ ।। सपन्ति ते सप्त । अनुवते इति अष्ट । णु स्तुतौ ॥ १३८९ अस्य गुणः २४ ॥ नुवन्ति ते नव । मह पूजायाम् ॥ १३९० अस्य घान्तादेशो वुगागमश्च निपात्यते कन्प्रत्यये परे २५ ॥ मह्यते इति मघवा । इति राजादयः ।। १३९१ इमन्त्रासुकः सर्वधातुभ्यः २६ ॥ सर्वधातुभ्य इसू मन्त्र असुक् इत्येते प्रत्यया भवन्ति ॥ १३९२ वचादेरस् २७ ॥ वचादेर्धातोरस् प्रत्ययो भवति वा सर्वधातुभ्योऽस्प्रत्ययः ॥ उच्यते इति वचः । मह्यते इति महः । पीङ् पाने । पीयते तत् पयः ॥ १३९३ पिबतेरसि २८ ॥ पिबतेर्धातोरसुन्प्रत्ययो भवति इकारान्तादेशश्च ।। पीयते इति पयः । तिज निशाने क्षमायां च । तितिक्षतीति । तेजः । तप्यते इति तपः । रञ्ज रागे ॥१३९४ असि नलोपो वाच्यः २९॥ रजते तत्र रजः । रक्ष हिंसायाम् । रक्षतीति रक्षः ।। १३९५ अर्चिरुचिशुचिहुमृपिछादिदिभ्य इस् प्रत्ययो भवति ३० ॥ अर्चिरुची दीप्तौ । अर्चतीति अर्चिः । गुणः । रोचिः । शोचिः। हूयते इति हविः। सर्पिः ।। १३९६ छादेरिसन्त्रपक्किप्सु हस्वो वाच्यः ३१ ॥ छद संवरणे । चुरादिः। छादयतीति छदिः । उच्छृदिर दीप्तिदेवनयोः । छुणत्तीति छर्दिः ॥ सर्वधातुभ्यस्त्रमनौ (सू० १३७८) तनु विस्तारे। तनोति तत् तत्रम् । मन ज्ञाने । मन्यते इति मन्त्रः । यम उपरमे । यच्छतीति यन्त्रः । छिदि संवरणे । ज्यन्तः । छादयतीति छत्रम् । क्रियते तत्कर्म । वृञ् आच्छादने । वृणोतीति वर्म । मर्म । दाम । धर्म । छादयतीति छद्म ॥ १३९७ धनार्तिचक्षिपृवपितपिजनि- . यजिभ्य उस् प्रत्ययो भवति ३२ ॥ धन शब्दे । धनतीति धनु