________________
सू०१३७९-१३९७ ] उणादिप्रक्रिया ५
२४७ अनेनेति पात्रम् । नीयते अनेनेति नेत्रम् । दा प्लवने । दीयते अनेनेति दात्रम् ॥ १३७९ युवहागिभ्यो निः १४ ॥ एभ्यो धातुभ्यो निःप्रत्ययो भवति ॥ यु मिश्रणे । यौतीति योनिः । वहतीति वह्निः । अङ्गतेऽसौ अमिः ॥ १३८० इदिचदिशकिरुदिभ्यो र १५ ॥ एभ्यो रप्रत्ययो भवति ॥ इदि चदि आह्लादने दीप्तौ च ॥ इन्दतेऽसौ इन्द्रः । चन्दतेऽसौ चन्द्रः । शन्नोतीति शक्रः । रोदितीति रुद्रः ॥१३८१ पुष्पादेरः १६॥ पुष्पादेर्धातोरः प्रत्ययो भवति ॥ पुष्प विकसने। पुष्पति तत् पुष्पम् । फल निष्पत्तौ । फलति तत् फलम् । मूल व्याप्तौ । मूलति तत् मूलम् । रघ सामर्थे ॥ १३८२ उप्रत्ययः १७ ॥ रघते शास्त्राणां शत्रूणां च अन्तं गच्छति प्रामोतीति रघुः॥१३८३ गमे?:१८॥ गमेर्धातो?ः प्रत्ययो भवति ॥ गच्छतीति गौः १३८४ ग्लानुदिभ्यां डौः १९ ॥ ग्लायतीति ग्लौः । नुदतीति नौः । नुद प्रेरणे। श्यै स्त्यै शब्दसंघातयोः ॥ १३८५ स्त्यायतेऽट २० ॥ डित्त्वाहिलोपः। संयोगान्तस्य लोपः (सू० २३५) टित्त्वादीप् । स्त्यायति समूह करोति सा स्त्री । लक्ष दर्शनाङ्कनयोः ॥ १३८६ लक्षतेरी मुटु च २१ ॥ लक्षतेर्धातोरीः प्रत्ययो भवति तस्य ईप्रत्ययस्य मुडागमश्च ॥ लक्ष्यते पुमान् अनया सा लक्ष्मीः ॥ १३८७ राजादेः कन् २२॥ राजादेर्धातोः कन् प्रत्ययो भवति ॥ राज् धन्व यु यु प्रतिदिव् वृष् तक्ष दंश् पचि षप् अशूङ् नु मह एते राजादयः । राजू दीप्तौ । राजतेऽसौ राजा । धन्व गतौ । धन्वतीति धन्वा । यु मिश्रणे । यौतीति युवा । द्यु गतौ । द्योतीति युवा । प्रतिदीव्यतीति प्रतिदिवा । वृषु वृद्धौ । वर्षतीति वृषा । तक्षु तनूकरणे । तक्ष्णोतीति तक्षा । दंशन्तीति दश । पचि विस्तारे । पचि संख्याने । इदित्