SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ सारस्वतव्याकरणम् । [वृत्तिः ३ धातोर्मुक्प्रत्ययो भवति ॥ अवतीति ओम् ओमौ ओमः ॥ १३७० अतिबृहिभ्यां मनिण ५ ॥ अत सातत्यगमने । सततं अततीति आत्मा वा अतति अखिलजनान्तर्निवासित्वेन सुकृतदुष्कृतकर्माणि पश्यतीति आत्मा । बृहि वृद्धौ ॥ १२७१ वन्युपधाया कर ६॥ मनिण्प्रत्यये परे उपधाया ऋकारस्य रेफो भवति ॥ बृंहतीति ब्रह्मा ॥ १३७२ घृधृपदो मः ७ ॥ धृ क्षरणे दीप्तौ च । घरतीति वा प्रियते इति धर्मः । धृ धारणे । धरतीति वा ध्रियतेऽसौ धर्मः । पद गतौ । पद्यते तत् पद्मम् ॥१३७३ ऋ स्तु सु ह हु मृक्षि या क्षु भा मा वा जक्ष रै नी श्यैङ् पद एभ्यो मः प्रत्ययो भवति ८॥ऋ गतौ । ऋच्छतीति अर्मः नेत्ररोगः । स्तौतीति स्तोमः । घू प्रसवे । सूतेऽसौ सोमः । हर्मः । जुहोतीति होमः । म्रियते इति मर्मः । क्षि निवासगत्योः । क्षयतीति क्षेमः । टुक्षु शब्दे । क्षौतीति क्षोमः । मातीति मामः । यातीति यामः । भातीति भामः। जक्ष भक्ष हसनयोः । जक्ष्मः । रायतीति रामः । नेमः । श्यैङ् दीप्तौ । श्यायतीति श्यामः । पद्मः ॥ १३७४ भीध्वोर्वा मक ९॥ बिभेत्यस्मादिति भीमः । धूयतेऽसौ धूमः ॥ १३७५ ध्वादेरुलिक १० ॥ ध्वादेर्धातोरुलिक् प्रत्ययो भवति ॥ धूनोमि वा धूयतेऽसौ धूलिः । अगि लघि रघि गत्यर्थाः इदितः । अङ्गते सा अङ्गुलिः ॥ १३७६ भविष्यदर्थे णिनिः ११॥ आगमिष्यतीति आगामी । भविष्यतीति भावी ॥ १३७७ शसादेः करणे त्रक १२ ॥ शसादेर्धातोः करणेऽर्थे त्रक् प्रत्ययो भवति ॥ १३७८ सर्वधातुभ्यस्त्रमौ १३ ॥ शस् हिंसायाम् । शंसति वा शस्यते अनेनेति शस्त्रम् । शास् अनुशिष्टौ । शिष्यते अनेनेति शास्त्रम् । असु क्षेपणे । अस्यते अनेनेति अस्त्रम् । पा पाने । पीयते
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy