SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सू० १३६६ - १३७८] उणादिप्रक्रिया ५ रामः सोमं पपियज्ञे ददर्गाश्चक्रिरद्भुतम् । याजकान् वत्रिराजहिः पौण्डरीके महाद्विजान् ॥ १ ॥ तदा जज्ञिर्महाश्चर्य नेमिर्नृपगणोऽपि तम् । ब्राह्मणानां श्रुतिविदां गणो जग्मिर्धनं मुदा ॥ २ ॥ इति कृदन्तप्रक्रियायां शीलार्थप्रक्रिया ॥ ४ ॥ २४५ उणादिप्रक्रिया ५ 1 अथोणादयो निरूप्यन्ते ॥ १३६६ सदोणादयः १ ॥ सर्वस्मिन्काले उणादयः प्रत्यया भवन्ति ।। १३६७ कृ वा पा जिमि स्वदि साधि अशुङ् एभ्य उण् प्रत्ययो भवति २ ॥ णकारो वृद्ध्यर्थः । करोतीति कारुः कारुकः । वा गतिगन्धनयोः । आतों युक् (सू० ११९२ ) वातीति वायुः । पा पाने । पातीति पायुः । जयति अनेनेति जायुः । डुमिन् प्रक्षेपणे । मि कौटिल्ये । मिनो1 तीति मायुः । स्वदि आखादने । स्वद्यते इति खादुः । साध्यतीति I साधुः । अश्नोतीति आशुः || १३६८ सि तनि गमि मसि सचि अवि हि धा ऋशि एभ्यस्तुन्प्रत्ययो भवति ३ ॥ षिञ् बन्धने । सिनोतीति सेतुः । तनोतीति तन्तुः । गच्छतीति गन्तुः । मसि परिणामे रक्षणे च । मस्यतीति मस्तुः । षच संबन्धे । सचतीति सक्तुः । अव रक्षणे । अवतेर्वकारस्य उकारः । अवतीति ओतुः । हि गतौ वृद्धौ च । हिनोतीति हेतुः । दधातीति धातुः । क्रुश आह्वाने । क्रुशि रोदने च । क्रुश् आक्रोशे । छशषराजादेः षः ( सू० २७६ ) टुभि: ष्टुः (सू० ७९ ) क्रोशतीति क्रोष्टा । अव रक्षणे पालने च । कित्त्वात्संप्रसारणमुकारः ॥ १३६९ अवतेर्मुक् ४ ॥ अवते
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy