________________
२४४
सारस्वतव्याकरणम् । [वृत्तिः ३ परे ॥ भञ्जो आमर्दने । भनक्तीत्येवंशीलः भङ्गुरः । जिमिदा गात्रविक्षेपे । मेद्यते इत्येवंशीलः मेदुरः ॥ १३५८ यङ ऊका २२ ॥ यज् जप दंश् वद् एभ्यो यङ्प्रत्ययान्तेभ्य ऊकः प्रत्ययो भवति शीलेऽर्थे । यङो लुक् । तत्सन्नियोगेन धातोर्विचनम् । यज देवपूजासंगतिकरणदानेषु । अतिशयेन यजतीति वा इज्यते इत्येवंशीलः यायजूकः । जप व्यक्तायां वाचि । अमजपां नुक् (सू० ११०३) जञ्जपूकः । दंश् दंशने । दंदशूकः । वावद्यते इत्येवंशीलः वावदूकः ॥ १३५९ जागर्तेरूको वाच्यः २३ ॥ जागर्तीत्येवंशीलः जागरूकः ॥ १३६० इणनशजिमृगमिभ्यः करप वाच्यः २४ ॥ इण् गतौ । हखस्य पिति (सू० १२४६) एतीत्येवंशील इत्वरः । णश अदर्शने । नश्यतीत्येवंशीलः नश्वरः । जयतीत्येवंशीलः जित्वरः । सरतीत्येवंशीलः सृत्वरः ॥ १३६१ गत्वरो निपात्यते शीलेऽर्थे २५ ॥ गच्छतीत्येवंशीलः गत्वरः ॥ १३६२ भियः कुकुको वक्तव्यौ २६ ॥ बिभेतीत्येवंशीलः भीरुः । भीरुकः ॥ १३६३ इषेरुश्छश्च २७ ॥ इषेरुः प्रत्ययो भवति छान्तादेशश्च । इच्छतीति इच्छुः ॥ १३६४ वरः २८ ॥ स्था ईशू भास् पिस्कसादिभ्यो वरः प्रत्ययो भवति शीलेऽर्थे ॥ तिष्ठतीत्येवंशीलः स्थावरः । ईशू ऐश्वर्ये । ईष्टे इत्येवंशीलः ईश्वरः । भासू दीप्तौ । भासते इत्येवंशीलः भाखरः । पिसृ गतौ । पिसतीत्येवंशील: पेखरः । कस् गतौ । कसतीत्येवंशीलः कखरः ॥ १३६५ आदृतः किर्द्विश्व भूते २९॥ आकारान्ताहकारान्ताद्धातोर्जनिनमिगमिभ्यश्च शीलेऽर्थे भूतकाले किः प्रत्ययो भवति णबादिवद्धातोश्च द्विर्वचनं भवति ॥ आतोऽनपि (सू० ८०५)॥