________________
सू०१३५०-१३६५] शीलार्थप्रक्रिया ४
२४३ शृणातीत्येवंशीलः शारुकः ॥ १३५० शृवन्योरारुः १४ ॥ शृवन्द्योर्धात्वोरारुः प्रत्ययो भवति ॥ शरारुः । वन्दारुः ॥ १३५१ स्पृहि गृहि पति शीङ् एभ्य आलुवाच्यः १५ ॥ स्पृह ईप्सायाम् । ईप्सा इच्छा । ग्रह ग्रहणे । पत ऐश्वर्ये । त्रयश्चरादयोऽदन्ताः ॥ १३५२ आलौ जिलोपाभावो वाच्यः १६ ॥ स्पृह्यतीत्येवंशीलः स्पृहयालुः । गृहयतीत्येवंशीलः गृहयालुः । पतयतीत्येवंशीलः पतयालुः । शीङ् खप्ने । शेते इत्येवंशीलः शयालुः ॥ १३५३ नमादे रः १७ ॥ नम् कपि स्मिङ् नपूर्वो जस् कम् हिंस् दीपू एभ्यो रः प्रत्ययो भवति शीलेऽर्थे ॥ णमु प्रहत्वे शब्दे च । नमतीत्येवंशीलः नम्रः । कपि चलने । कम्पतीत्येवंशीलः कम्प्रः । स्मिङ् ईषद्धसने । स्मयते इत्येवंशीलः स्मेरः । जसु मोक्षणे । जस् गतिनिवृत्तौ । दिवादिः । न जस्यतीत्येवंशीलं अजस्रम् । कामयते इत्येवंशीलः कम्रः । हिसि हिंसायाम् । हिनस्तीत्येवंशीलः हिंस्रः । दीपी दीप्तौ । दीप्यते इत्येवंशीलः दीपः ॥ १३५४ घसादेः क्मरः १८ ॥ घसू सू अद् एभ्यः क्मरः प्रत्ययो भवति शीलेऽर्थे ॥ घस्ल अदने । घसतीत्येवंशीलः घस्मरः । सृ गतौ । स सरणे । सृ हिंसायाम् । सरतीत्येवंशीलः सृमरः। अद् भक्षणे । अत्तीत्येवंशीलः अमरः ॥ १३५५ भिदि छिदि विदि एभ्यः कुरवाच्यः शीलेऽर्थे १९ ॥ भिनत्तीत्येवंशीलः भिदुरः । विद् ज्ञाने । वेत्तीत्येवंशीलः विदुरः । छिदिर द्वैधीकरणे । छिनत्तीत्येवंशीलः छिदिरः ॥ १३५६ भासादेघुरः २० ॥ भास् भन् मिद् एभ्यो घुरः प्रत्ययो भवति शीलेऽर्थे ॥ घकारो मित्कार्यार्थः ॥ भास दीप्तौ । भासते इत्येवंशीलः भासुरः ॥ १३५७ चजोः कगौ घिति २१ ॥ धातोश्चकारजकारयोः ककारगकारौ भवतः घिति प्रत्यये