SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ . सारस्वतव्याकरणम् । [वृत्तिः३ प्रेक्षणे । पश्यतीति दर्शः । सृप्लः गतौ सर्पतीति सर्पः । भृञ् भरणे । भरते वा भरतीति भरः । डुभृञ् धारणपोषणयोः । बिभूति वा बिभृतेऽसौ भरः । सहतेसौ सहः पचादिराकृतिगणः । पचादेरप्रत्ययो निरुपपदस्येव ज्ञातव्यः ॥ इति पदादिः ॥ अथ नन्दादिनिरूप्यते ॥ टुणदि समृद्धौ । इदितो नुम् ( सू० ७४५ ) नन्दति वा नन्दयतीति नन्दनः । नन्दतीति नन्दकः । रमु क्रीडायाम् । रमतेऽसौ रमणः । वाम क्रम संहर्षे । वामतीति वामनः । क्रमतीति क्रमणः । वास शब्दे । वासयतीति वासनः । मितां हवः (सू० १०३५) मदी हर्षे । माद्यतीति वा मदयतीति मदनः। दुष वैकृत्ये॥ १२०२ दुषेौं कृति च दी? वक्तव्यः१६॥दूषयतीति दूषणः । राध् साध् संसिद्धौ । राध्यतीति वा राधयतीति राधनः साधनः । वृधु वृद्धौ । वर्धयतीति वर्धनः । रु शब्दे ॥ १२०३ रोयुण १७॥ रु शब्द इत्येतस्माद्धातोर्युण् प्रत्ययो भवति ॥ रौति वा रावयतीति रवणः ॥ १२०४ रुशब्दात् युरपि वक्तव्यः १८॥ तेन रावणः ॥ १२०५ ऋकारान्ताच १९ ॥ युण्प्रत्ययो भवति । करोतीति वा कारयतीति कारकः । कारणः । शुभ शोभने रोचने च । शोभयतीति शोभनः । रुच दीप्तौ । रोचयतीति रोचनः । बिभीषयतीति बिभीषणः । णशू अदर्शने । चित्तं विनाशयतीति चित्तविनाशनः । युध्यते इति योधनः । एते ज्यन्ताः । सहतेऽसौ सहनः । तपतीति तपनः । ज्वल ज्वलने । ज्वल दीप्तौ । ज्वलतीति ज्वलनः । शम् दम् उपशमे । शाम्यतीति शमनः । दाम्यतीति दमनः । जल्पतीति जल्पनः । तृप प्रीणने। तृप्यतीति तर्पणः । रमणः । हप् संदर्षे । दृप्यतीति दर्पणः । क्रन्द आक्रन्दने । ऋदि आह्वाने रोदने च । संपूर्वः। संक्रन्दति वा संक्रन्दयतीति संक्रन्दनः।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy