________________
२१५
सू०११९८-१२०५] कृदन्तप्रकरणम् १ ११ ॥ जानातेर्धातोरपि कः प्रत्ययो भवति ॥ जानातेश्चेति चकारात्कृगधृदृप्रीब्रुवामपि कः प्रत्ययो भवति ॥ कृ विक्षेपे । ऋत इर् (सू०८२०) । किरतीति किरः॥धृञ् धारणे । धरतीति ध्रः । श्री तर्पणे । प्रीणाति वा प्रीणीतेसौ प्रियः । नु धातोः (सू० ७७६)। गृ निगरणे । गिरतीति गिरः । गिरते रस्य वा लः खरे वाच्यः (सू०१०१६) १९९८ गिले परेऽगिलस्य १२ ॥ गिलशब्दं विहाय पूर्वस्य मुम् वक्तव्यः । तिमि गिलतीति तिमिगिलः । अगिलस्येति किम् । गिलगिलः । ब्रूञ् व्यक्तायां वाचि । नु धातोः। (सू० ७७६) ब्रवीतीति ब्रुवः । अपिशब्दात्कर्तरि गहेरपि कः प्रत्ययो भवति । गृह्णातीति गृहम् । तात्स्थ्यात् गलन्ति ते गृहा दाराः॥ १९९९ पचिनन्दिग्रहादेरयुणिनि १३ ॥ पचादेनन्द्यादेग्रहादेश्व अयु णि नि इत्येते प्रत्यया भवन्ति यथासंख्येन ।। पचतीति पचः । वक्तीति वचः । वेत्तीति वेदः । वपतीति वपः ॥ १२०० चरिचलिपतिहनिवदीनां वा द्वित्वं पूर्वस्याऽगागमश्च १४ ॥ अप्रत्यये परे । हसादिः शेषाभावः । चर गतिभक्षणयोः चरतीति चराचर:चरः । चल चलने । चलतीति चलाचल:-चलः । पत्ल पतने । पततीति पतापतः-पतः । वदतीति वदावदः-वदः ॥ १२०१ हन्तर्घनश्च १५ ॥ हन्तीति धनाधना-हनः । चकाराद्धन शब्द। घनतीति घनाघनः-धनः । इत्यादि । णद अव्यक्ते शब्दे । नदतीति नदः । प्लङ् गतौ । प्लवतेऽसौ प्लवः । चरतेऽसौ. चरः । क्षमूष सहने । क्षमतेऽसौ क्षमः । पचादिषु देवट् नदट् इति । टकारानुबन्धत्वादीप् । दीव्यतीति देवी । षिवु तन्तुसन्ताने । षे सेवने । सेवतेऽसौ सेवः । सीव्यतीति सेवः । व्रण क्षते । व्रण रुजि । व्रण शब्दे । व्रणतीति व्रणः । अन प्राणने । प्राणितीति प्राणः । दृशिर