________________
१९२
. सारस्वतव्याकरणम् । [वृत्तिः२ वृद्धिः । गणयति ॥ १०४० अल्लोपिनो नाकार्यम् १० ॥ अजगणत् । कथगणयोरङ्कार्य चेति केचित् । अजीगणत् । ऋथ वाक्यप्रबन्धे । कथयति । अचकथत्-अचीकथत् । उन परिहाणे । ऊनयति ॥ १०४१ जिनिमित्तस्वरादेशो द्वित्वे कर्तव्ये स्थानिबत् ११ ॥ खरादेः परः ( सू० १०३८ ) अर्थङ् याचने । अर्थयते । आथित । संग्रामङ् युद्धे । अससंग्रामत ॥ अन्ध दृष्टयुपघाते । आन्दधत् । अङ्क अङ्ग पदे लक्षणे च । आञ्चकत् ॥ इति चुरादिगणः ॥ २६ ॥
___ व्यन्तप्रक्रिया २७ . ॥ अथ ज्यन्ताः ॥ १०४२ धातो प्रेरणे १ ॥ प्रयोजकव्यापारेऽर्थे धातोनिः प्रत्ययो भवति ॥ कुर्वन्तं प्रेरयति यः स प्रयोजकः । कारयति कारयते । अचीकरत् । पाचयति अपीपचत् । भक्तं प्रेरयति भावयति भावयते । भावयांबभूव । १०४३ अङ्सयोः २ । पूर्वस्योकारस्येत्वं पवर्गयवरलजकारेध्ववर्णपरेषु परतः ॥ १०४४ द्विर्निमित्तेचि ३ ॥ द्वित्वनिमित्तेऽचि अच आदेशो न द्वित्वे कर्तव्ये ॥ अबीभवत् । मृङ् मोहने । मावयति । अमीमवत् । यु मिश्रणे। अयीयवत् । रु शब्दे । अरीरवत् । लूञ् छेदने । अलीलवत् । जु गतौ । अजीजवत् ॥ १०४५ स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनाम् ४ ॥ अङ्. सयोः पूर्वस्येत्वं वाऽवर्णपरे धात्वक्षरे परे ॥ असिस्रवत्-असुस्रवत् । अशिश्रवत्-अशुश्रवत् । अदिद्रवत्-अदुद्रवत् ॥१०४६ हनो घत् ५॥ हन्तेर्घदादेशो भवति ब्णिति णपवर्जिते परतः ॥ घातयति । अजीघतत् । शदूल शातने ॥ १०४७ शदेः शत् ६॥ शदेः शतादेशो