________________
सू० १०४८-१०६७] ज्यन्तप्रक्रिया २७
१९३ भवति अगतौ जौ परे ॥ शातयति । गतौ तु सादयति । अशीशतत् । रातो जौ पुक् (सू० १०३७) डुदाञ् दाने । दापयति अदीदपत् । धापयति अदीधपत् ॥ १०४८ पुगन्तस्य गुणो वक्तव्यः ७ ॥ अर्पयति । खरादेः परः (सू० १०३८) आर्पिपत् । ष्ठा गतिनिवृत्तौ । स्थापयति ॥ १०४९ तिष्ठतेरुपधाया इकारो घक्तव्योङि परे ८॥ ततो द्वित्वम् । अतिष्ठिपत् ॥ १०५० पादेर्युक् ९ ॥ पाशाछासाहेवेञां युगागमो भवति नौ परे ।। पाययति॥१०५१पिबतेरङि पूर्वस्येकारोपधालोपौवक्तव्यौ १०॥ अपीप्यत् । शो तनूकरणे । सन्ध्यक्षराणामा (सू० ८०३) शाययति । अशीशयत् । छो छेदने । अचीछयत् । षोऽन्तकर्मणि । साययति असीषयत् । हृञ् स्पर्धायाम् ॥ १०५२ ह्वयतेरङि संप्रसारणं युगभावश्च वक्तव्यः कृतसंप्रसारणस्य दयतेरङि क्रमागुणवृद्धी वाच्ये ११॥ अजुहावत् अजूहवत् अजूहवताम् । व्यञ् संवरणे । व्यायति अविव्ययत् । वेञ् तन्तुसंताने। वाययति । अवीवयत् ॥ १०५३ पातेझै लुग्वक्तव्यः १२ ॥ युकोऽपवादः। पालयति । अपीपलत् । रभ राभस्ये । रभसो वेगहर्षयोः ॥ १०५४ रभलभोः स्वरेणाद्यपी विना नुम्वाच्यः १३ ।। रम्भयति । अररम्भत् । हुलभ प्राप्तौ । लम्भयति । अललम्भत् । प्रीञ् तर्पणे ॥ १०५५ प्रीधुजोर्नु १४ ॥ अनयोर्नुगागमो भवति जौ परे ॥ प्रीणयति । अपिप्रीणत् । धूञ् कम्पने। धूनयति । अदुधूनत् ॥ स्मिञ् ईषद्धसने ॥ १०५६ स्मयतेरात्यात्वं औ वाच्यम् १५ ॥ विस्मापयते । असिष्मपत् । आति किम् । विस्मापयति । असिष्मयत् ॥ १०५७ रुहेनौ पो वा वाच्यः १६ ॥ रुह बीजजन्मनि प्रादुर्भावे च । रोहयति। रोपयति । अरूरुहत् अरूरुपत्॥
१३