________________
१९.
सारस्वतव्याकरणम् । [वृत्तिः २ कृपू सामर्थे । कृपो रोल: (सू०८५७) कल्पयति ॥१०५८ उपधाया ऋवर्णस्याङि वा वक्तव्यः १७ ॥ इररारामपवादः । अचीक्लुपत्अचकल्पत् ॥ वृतु वर्तने । वर्तयति। अवीवृतत्-अववर्तत् । मृजूष शुद्धौ। मार्जयति । अमीमृजत् अममार्जत् ॥ १०५९ इडादेऔं पुक् च १८ ॥ इक्रीजीनामात्वं भवति नौ परे हीलीरीनुयीक्ष्मायीनां पुगागमो भवति औ परे ॥ इङ् अध्ययने । अध्यापयति । अध्यापिपत् ॥ १०६० अपरे औ इडो गाङ् वा वक्तव्यः १९ ॥ अध्यजीगपत् । डुक्रीञ् द्रव्यविनिमये । कापयति अचिक्रपत् । जी जये । जापयति । अजीजपत् । ही लज्जायाम् । हेपयति । मजीहिपत् । ब्ली वरणे । ब्लेपयति । अबिब्लिपत् । रीङ् क्षरणे । रेपयति । अरीरिपत् ॥ कुयी दुर्गन्धे ॥ १०६१ यवयोर्वसे हकारे च लोपो वक्तव्यः २०॥ कोपयति । अचूकुपत् ।मायी विधूनने । एकः क्ष्मायति तमन्यः प्रेरयति क्षमापति । अचिक्ष्मपत् । लीङ् श्लेषणे ॥ १०६२ लीयतेावात्वं वा २१ ॥ विलापयति ॥ १०६३ लीलोः पुर वक्तव्यः २२॥ विलेपयति । व्यलीलिपत् व्यलीलपत्॥ १०६४ लीलोझै क्रमानुग्लुको वा २३ ॥ विलीनयति । व्यलीलिनत् । ला ग्रहणे । लापयति । अलीलपत् । लालयति । अलीललत् अलीललताम् ॥ १०६५ न रितः २४ ॥ ऋकारेतोऽनेकखरस्य शासश्चङि उक्त कार्य न भवति ॥ ढोक गतौ । ढोकयति । अडुढौकत् । टुयाचू याच्ञायाम् । याचयति । अययाचत् । शासु अनुशिष्टौ । शासयति । अशशासत् । दरिद्रा दुर्गतौ । दरिद्रयति । अददरिद्रत् अददरिद्रताम् । दुष वैकृत्ये ॥१०६६ दुषेऔं वा दीर्घो वक्तव्यः २५॥ दूषयति दोषयति । अदूदुषत् । घट म्भेष्टायाम् ॥ १०६७ मितां हृखः २६ ॥ धातुपाठे मित इत्येवं