________________
सू० १०३२ - १०४७] चुरादिगणः २६
१९१
र्गणात्खार्थे ञिः प्रत्ययो भवति ॥ उपधाया गुणः । सधातुः (सू० ७८२) अप्गुणायः । चोरयति । चोरयेत् । चोरयतु । अचोरयत् । चोरयाञ्चकार । चोरयाम्बभूव । चोरयामास । चोरयाञ्चक्रे । ञः 1 (सू० ८४४) चोर्यात् । चोरयिता । चोरयिष्यति । अचोरयिष्यत् । ञेरङ् द्विश्च (सू० ८४३) अङि लघौ हख उपधायाः ( सू० ८४५ ) लघोर्दीर्घः (सू० ८४६) अचूचुरत् । चिती संज्ञाने । चेतयति । अचीचितत् । चिति स्मृत्याम् । इदितो नुम् । ( सू० ७४५ ) चिन्तयति । लघोरभावान्न दीर्घः । अचिचिन्तत् । चुरादेर्जिर्वेति केचित् । चिन्तति । पीड अवगाहने । पीडयति ॥ १०३२ भ्राजभासभाषदीपजीव मीलपीडां वोपधाया हवो ङपरे जौ २ ॥ अपीपिडत् अपिपीडत् । प्रथ प्रख्याने । प्रथयति ॥ १०३३ स्मृद्दृत्वरप्रथप्रदस्तृस्पर्शा पूर्वस्यातोऽदङ्परे जौ ३ ॥ इत्वापवादः । अपप्रथत् ॥ पृथ प्रक्षेपे ॥ १०३४ उपधाया ऋवर्णस्याङि ऋ वा वक्तव्यः ४ ॥ इररारामपवादः । अपीपृथत् अपपर्थत् । ज्ञप ज्ञानज्ञापनयोर्मित् ॥ १०३५ मितां हखः ५ ॥ मितां धातूनां हखो भवति जौ परे ॥ ज्ञपयति । चिञ् चयने । मित् ॥ १०३६ चिस्फुरोर्भावात्वं वा ६ । १०३७ रातो ञौ पुक् ७ ॥ ऋ गतावित्यस्याकारस्य च पुगागमो भवति त्रौ परे ॥ चपयति-चययति ॥ अर्च पूजायाम् । अर्चयति ॥ १०३८ खरादेः परः ८ ॥ स्वरादेर्धातोः परोऽवयवोऽद्विरुक्तः सखरो द्विर्भवति ॥ नदराः संयोगादयो न द्विः (सू० ९३९) इति रेफस्य न द्वित्वम् । आर्चिचत् । कृत संशब्दे ॥ १०३९ धातोरुपधाया ऋकारस्य ईकारादेशो वाच्यो जिप्रत्यये परे ९ ॥ कीर्तयति । अचिकीर्तत् । गण संख्याने । अकारान्तः । अल्लोपस्य स्थानिवत्त्वान्न