SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४६ सारस्वतव्याकरणम् । [वृत्तिः १ राजन् सि इति स्थिते । नोपधायाः ( सू० २२१ ) इति दीर्घः । हसेपः ( सू० १५६ ) ॥ २५२ नानो नो लोपशधौ २० ॥ नाम्नः नः लोपश् अधौ । नाम्नो नकारस्यानागमजस्य लोपश् भवति रसे पदान्ते चाधौ । चकारात्कचिन्नाम्नो नकारस्य लोपशू न भवति । सुष्ठु हिनस्ति पापमिति सुहिन् ॥ राजा राजानौ राजानः । राजानम् राजानौ । अल्लोपः खरेऽम्ब्वयुक्ताच्छसादौ (सू० २२७ ) इत्युपधाया लोपः । स्तोः श्चुभिः श्चुः (सू० ७७) इति नकारस्य अकारः ॥ २५३ जजोः २१ ॥ जकारञकारसंयोगे ज्ञ इत्यक्षरं भवति ॥ राज्ञः । राज्ञा राजभ्याम् । योगानामुभयतः संबन्धः । लोपशि पुनर्न संधिः ( सू० ५०) इति नियमात् । अद्भि (सू० १३१) इत्यात्वं न । राजभिः । राज्ञे राजभ्याम् राजभ्यः । राज्ञः राजभ्याम् राजभ्यः । राज्ञः राज्ञोः राज्ञाम् । राज्ञि । वेड्योः ( सू० २२८ ) राजनि राज्ञोः राजलु । अधाविति विशेषणाद्धेराजन् हेराजानौ हेराजानः ॥ एवं यज्वन्नात्मन्सुधर्मन्प्रभृतयः ॥ यज्वा यज्वानौ यज्वानः । यज्वानम् यज्वानौ । अम्वयुतादिति विशेषणादलोपो नास्ति । यज्वनः । यज्वना यज्वभ्याम् यज्वभिः । यज्वने यज्वभ्याम् यज्वभ्यः । यज्वनः । इत्यादि । हेयज्वन् हेयज्वानौ हेयज्वानः ॥ आत्मा आत्मानौ आत्मानः । आत्मानम् आत्मानौ आत्मनः । आत्मना आत्मभ्याम् आत्मभिः । इत्यादि ॥ हेआत्मन् हेआत्मानौ हेआत्मानः ॥ सुधर्मा सुधर्माणौ सुधर्माणः । सुधर्माणम् सुधर्माणौ सुधर्मणः । सुधर्मणा सुधर्मभ्याम् सुधर्मभिः इत्यादि ॥ हेसुधर्मन् हेसुधर्माणौ हेसुधर्माणः ॥ श्वन्युवन्मघवन्शब्दानां पञ्चसु राजनशब्दवत्प्रक्रिया । श्वा श्वानौ श्वानः । श्वानम् श्वानौ ॥ २५४ श्वादेः २२ ॥ श्वादेर्वकार उत्वं प्राप्नोति
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy