________________
सू०२५५-२६३] हसान्ताः पुंलिङ्गाः ९
. ४७ शसादौ खरे परे तद्धिते ईपि ईकारे च । खरे तु न भवति ॥ अत्र नियामकं पाणिनीयसूत्रम् । श्वयुवमघोनामतद्धिते । तेन माघवनं भवति । शुनः । शुना श्वभ्याम् श्वभिः । शुने श्वभ्याम् श्वभ्यः। शुनः श्वभ्याम् इत्यादि ॥ हेश्वन् हेश्वानौ हेश्वानः ॥ युवा युवानौ युवानः । युवानम् युवानौ । युवनशब्दस्य तु वकारस्योत्वे कृते । सवर्णे दीर्घः सह ( सू० ५२ ) यूनः । यूना युवभ्याम् युवभिः । यूने युवभ्याम् युवभ्यः । इत्यादि । हेयुवन् हेयुवानौ हेयुवानः ।। मघवा मघवानौ मघवानः । मघवानम् मघवानौ । मघवन्शब्दस्य वकारस्योत्वे कृते । उ ओ ( सू० ४५) मघोनः । मघोना मघवभ्याम् मघवभिः । मघोने मघवभ्याम् मघवभ्यः । इत्यादि ॥ हेमघवन् हेमघवानौ हेमघवानः ॥ २५५ मघवा बहुलम् २३ ॥ मघवन्शब्दस्य वा तृ इत्यन्तादेशः स्यात् ॥ ऋकारो बित्कार्यार्थः । बहुलग्रहणात्सर्वे विधयो व्यभिचरन्ति । बितो नुम् (सू० २९२ ) मघवान् । नश्चापदान्ते झसे ( सू० ९५) मघवन्तौ मघवन्तः । मघवन्तम् मघवन्तो मघवतः । मघवता मघवभ्याम् मघवद्भिः । मघवते मघवन्याम् मघवभ्यः इत्यादि ॥ हेमघवन् हेमघवन्तौ हेमघवन्तः ॥ ‘स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः ॥' इति प्रयोगदर्शनात् ॥ २५६ अर्वणस्त्रसावनञः २४ ॥ नम्वर्जस्यार्वणस्तृ इत्यन्तादेशः स्यादसौ विभक्तो परतः । अर्वा अर्वन्तौ अर्वन्तः । अर्वन्तम् अर्वन्तौ अर्वतः । अर्वता अर्वभ्याम् अर्वद्भिः। अर्वते अर्वभ्याम् अर्वञ्यः । इत्यादि॥ हेअर्वन् हेअर्वन्तौ हेअर्वन्तः॥ नवर्जस्येति किम् । नोपधायाः (सू०२२१) अनर्वा अनर्वाणौ अनर्वाणः । अनर्वाणम् अनर्वाणौ अनर्वणः । अनर्वणा अनर्वभ्याम् १ इदमपि पाणिनीयमत्र प्रसङ्गात्केनचित्संगृहीतम् ।