________________
४८ सारस्वतव्याकरणम् ।
[वृत्तिः १ अनर्वभिः अनर्वसु । इत्यादि ॥ नकारान्तस्यापि पथिन्शब्दस्य भेदः ॥ २५७ इतोऽत्पञ्चसु २५ ॥ इतः अत् पञ्चसु । पञ्चसु स्यादिषु पथ्यादीनामिकारस्याकारो भवति ॥ २५८ थो नुन २६ ॥ पथ्यादीनां थकारस्य नुडागमो भवति पञ्चसु स्यादिषु परेषु । पन् थन् सि इति स्थिते ॥२५९ आ सौ २७॥ आ सौ । पथ्यादीनां टेरात्वं भवति सौ परे । पन्थाः । नोपधायाः ( सू ० २२१) पन्थानौ पन्थानः । पन्थानम् पन्थानौ ॥ २६० पन्थां टेः २८ ॥ पथ्यादीनां टेलोपो भवति शसादौ खरे परे तद्धिते ईपि ईकारे च । पथः । पथा पथिभ्याम् पथिभिः । पथे पथिभ्याम् पथिभ्यः । पथः पथिभ्याम् पथिभ्यः । पथः पथोः पथाम् । पथि पथोः । नलोपः । किलात्षः सः ( सू० १४१) पथिषु । हेपन्थाः हेपन्थानौ हेपन्थानः ॥ एवं मथिन्ऋभुक्षिन्प्रभृतयः। मन्थाः मन्थानौ मन्थानः॥ ऋभुक्षाः ऋभुक्षाणौ ऋभुक्षाणः । इत्यादि। दण्डिन्शब्दस्य भेदः॥ २६१ इनां शौ सौ २९ ॥ इन् हन् पूषन् अर्थमन् इत्येतेषां शौ सौ चाधौ परे उपधाया दी| भवति । सिलोपनलोपौ । दण्डी दण्डिनौ दण्डिनः । दण्डिनम् दण्डिनौ दण्डिनः । दण्डिना दण्डिभ्याम् दण्डिभिः । दण्डिने दण्डिभ्याम् दण्डिभ्यः । दण्डिषु । इत्यादि ॥ हेदण्डिन् हेदण्डिनौ हेदण्डिनः ॥ ब्रह्महा ब्रह्महणौ ब्रह्महणः । ब्रह्महणम् ब्रह्महणौ । अल्लोपः खरे (सू० २२७) ।। २६२ हनो ने ३० ॥ हनः घ् ने । हन्तेर्धातोर्हकारस्य घत्वं भवति अव्यवधाने नकारे परे व्यवधाने निति णिति च परे । घसंयोगो णत्वनिषेधार्थः ॥ २६३ हन्तेरत्पूर्वस्य ३१॥ हन्तेरकारपूर्वस्यैव नस्य णत्वं स्यान्नान्यस्य ॥ ब्रह्मघ्नः । ब्रह्मना ब्रह्महभ्याम् ब्रह्महभिः । ब्रह्मन्ने ब्रह्महभ्याम् ब्रह्महभ्यः । ब्रह्मनः ब्रह्मभ्याम्