________________
४५
सू०२४७-२५४] हसान्ताः पुंलिङ्गाः ९ हेउक्थशाः हेउक्थशः हेउक्थशासौ हेउक्थशासः । इत्यादि । पुरोडाः पुरोडाशौ पुरोडाशः । पुरोडाशम् पुरोडाशौ पुरोडाशः । पुरोडाशा पुरोडोभ्याम् पुरोडोभिः । पुरोडाशे पुरोडोभ्याम् पुरोडोभ्यः। पुरोडःसु-पुरोडस्सु । हेपुरोडाः-हेपुरोडः हेपुरोडाशौ हेपुरोडाशः ॥ अवयाः अवयाजी अवयाजः । अवयाजम् अवयाजौ अवयाजः । अवयाजा अवयोभ्याम् । अवयोभिः । अवयाजे अवयोभ्याम् अवयोभ्यः । अवयःसु-अवयस्सु । हेअवयाः हेअवयः हेअवयाजौ हेअवयाजः ।। तुरासाहशब्दस्य भेदः । हो ढः (सू०२४३)॥ २४७ सहे। षः साढि १५ ॥ सहेः सकारस्य षकारादेशो भवति साढि सति । वावसाने (सू० २४०) तुरापाट् तुराषाड् तुरासाही तुरासाहः । तुरासाहम् तुरासाही तुरासाहः । तुरासाहातुराषाड्भ्याम् तुरषाभिः। तुरासाहे तुरापाड्भ्यः । इत्यादि ॥ हेतुरापाट्-हेतुरापाड् हेतुरासाहौ हेतुरासाहः ॥ रेफान्तश्चतुर्शब्दो नित्यं बहुवचनान्तः।। २४८ चतुराम् शौ च १६ ॥ चतुर्शब्दस्यामागमो भवति धिवर्जितेषु पञ्चसु परेषु शौ च परे । चत्वारः चतुरः चतुर्भिः चतुर्थ्यः ॥ २४९ र: संख्यायाः १७ ॥ रेफान्तसंख्यायाः परस्यामो नुडागमो भवति । णत्वद्वित्वे । चतुर्णाम् ॥ २५० रः सुपि १८ ॥ सप्तमीबहुवचने रोरेव विसर्जनीयो नान्यरेफस्य ॥ चतुषु । अत्र ज्ञापकं यक्चतुर्विदं सूत्रम् । तदन्तविधिरत्रेष्यते । प्रियाश्चत्वारो यस्य सः प्रियचत्वाः प्रियचत्वारौ प्रियचत्वारः । प्रियचत्वारम् प्रियचत्वारौ प्रियचतुरः । प्रियचतुरा प्रियचतुाम् प्रियचतुर्भिः । गौणत्वे नुट नेष्यते । प्रियचतुराम् । प्राधान्ये तु स्यादेव । परमचतुर्णाम् ॥ २५१ धावम् १९ ॥ चतुशब्दस्य धौ परे अमागमो भवति ॥ हेप्रिय, चत्वः हेप्रियचत्वारौ हेप्रियचत्वारः ॥ नकारान्तो राजनशब्दः ।