________________
२२८
सारस्वतव्याकरणम् । [वृत्तिः३ अन्यादृक् । स इव दृश्यतेऽसौ तादृशः-तादृक्षः-तादृक् । य इव दृश्यतेऽसौ यादृशः-यादृक्षः-यादृक् । एष इव दृश्यतेऽसौ एतादृशःएतादृक्षः-एतादृक् ॥ १२६० किमिदमः कीशूईशौ ७४ ॥ किम्शब्दस्य इदम्शब्दस्य च कीश् ईश् इत्येतावादेशौ भवतः टकारादिषु प्रत्ययेषु परेषु ॥ शकारः सर्वादेशार्थः। क इव दृश्यतेऽसौ कीदृशः कीदृक्षः-कीहक् । अयमिव दृश्यतेऽसौ ईदृशःईदृक्षः-ईदृक् । ईदृशी वार्ता । सर्वादित्वामुरात्वम् । भवदादिषु दृशेष्टकारादयः पूर्वस्य टेर्दीता च वक्तव्या ।। भवानिव दृश्यतेऽसौ भवादृशः-भवादृक्षः-भवादृक् । चकारात् एतेषु प्रत्ययेषु परेषु समानशब्दस्य सो वाच्यः । समान इव दृश्यतेऽसौ सदृशः-सदृक्षः-सदृक् ।। १२६१ अदसोऽमू आदेशः ७५ ॥ अदसूशब्दस्य टगादिषु सत्सु अमू आदेशो भवति किति परे ॥ असाविव दृश्यतेऽसौ अमूदृशःअमूदृक्षः-अमूदृक्-ग् ॥ १२६२ प्रत्ययोत्तरपदयोः परतो युष्मदसदोरेकत्वे त्वत् मत् इत्येतावादेशौं भवतः ७६॥ त्वमिव दृश्यतेऽसौ त्वादृशः त्वादृक्षः-त्वदृक्-ग् । अहमिव दृश्यतेऽसौ मादृशः-मादृक्षः-मादृक् ग् । यूयमिव दृश्यतेऽसौ युष्मादृशः-युष्मादृक्षः-युष्मादृक् । वयमिव दृश्यतेऽसौ अस्मादृशः अस्मादृक्षः-अस्मादृक् । टकारानुबन्धत्वादीप् । तादृशी । यादृशी । एतादृशी । त्वादशी । मादृशी । अन्यादृशी । युष्मादृशी । अस्मादृशी । भवादृशी । इत्यादि । १२६३ णिनिरतीते ७७ ॥ धातोरतीते काले शीलेऽर्थे च णिनिप्रत्ययो भवति ॥ १२६४ करणे उपपदे यजेर्णिनिर्वाच्यः ७८॥ इनां शौ सौ (सू० २६१) अग्निष्टोमेन इयाज इति वा अग्निष्टोमेन अयाक्षीत् इति वा अग्निष्टोमयाजी । वा अग्निष्टोमं यष्टुं शीलं यस्य सः अमिष्टोमयाजी। अश्राद्धं भुङ्क्ते इत्येवंशीलः. अश्राद्ध