SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ सू० १२६५-१२७४] कृदन्तप्रकरणम् १ २२९ भोजी । अर्धं भुङ्क्ते इत्येवंशील : अर्घभोजी । सुखभोजी । उष्णं भुते इत्येवंशीलः वा भुक्तवान् इति उष्णभोजी । हनो घत् ( सू० १०४६)॥ १२६५ हन्तेर्निन्दायां णिनिर्वाच्यः ७९ ॥ पितरं जघान वा अवधीत् इत्येवंशीलः पितृघाती । दण्डिन् शब्दवद्रूपं ज्ञेयम् ।। १२६६ कर्तर्युपमाने णिनिर्वाच्यः ८० ॥ अभ्र इव पततीति अभ्रपाती । मत्त इव करोतीति मत्तकारी । हंस इव गच्छतीति हंसगामी । स्त्री चेत् हंसगामिनी । ईप् ॥ १२६७ किपूकनिब्डाः ८१ ॥ धातोरतीते काले शीलेऽर्थे च क्विप् क्वनिप् डा इत्येते प्रत्यया इव भवन्ति ॥ १२६८ किपू ८२ ॥ वृत्र ब्रह्म भ्रूण एतत्पूर्वकादेव हन्तेः क्विप् स्यात् ॥ अतीते काले एव वृत्रं हतवानिति वृत्रहा । ब्रह्महा । भ्रूणहा । अन्यत्र शत्रुघातीत्यत्र णिनिः । शत्रु हन्तीत्येवंशीलः शत्रुघाती । सुष्ठु करोति स्माऽसौ सुकृत् । कर्मकृत् । पापकृत् । पुण्यकृत् । शास्त्रकृत् । सोमं सुनोति स्माऽसौ सोमसुत् । अग्निं चिनोति स्माऽसौ अग्निचित् । इत्येते बिन्ताः ॥ क्वनिप् । युधि संप्रहारे । राजानं युध्यते स्माऽसौ राजयुध्वां । राजानं करोतीत्येवंशीलः राजकृत्वा । सह युध्यते स्माऽसौ सहयुध्वा । सहकृत्वा । षुञ् प्राणिप्रसवे । वन तुक् । कित्वाद्गुणाभावः । सुनोति स्माऽसौ वा सुतवान् इति सुत्वा । स्तुत्वा । यजति स्माsसौ यज्वा । पारमद्राक्षीत् इति पारदृश्वा । इत्येते कनिबन्ताः ॥ जनी प्रादुर्भावे ।। १२६९ सप्तम्यां जनेर्डः ८३ ॥ सप्तम्यां जनेर्धातोर्डः प्रत्ययो भवति अतीते काले || सरसि जायते स्म तत् सरसिजं पद्मम् । अलुक् क्वचित् (सू० ५४९ ) सरसि जातं सरोजम् । संस्कारजः । अजः । द्विजः । परितः खाता इति परिखा । प्रकर्षेण जायते स्मेति प्रजा । सर्वं गतवान् इति सर्वगः
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy