________________
२३०
सारस्वतव्याकरणम् ।
[वृत्तिः
३
वा सर्व गच्छति माऽसौ सर्वगः । गै शब्दे । साम गीतवान् गायति स्माऽसौ सामगः ॥ इति डप्रत्ययान्ताः ॥ इति कर्बर्थप्रक्रिया ॥१॥
निष्ठाधिकारप्रक्रिया २ अथ निष्ठाधिकारप्रक्रिया ॥ १२७० क्तक्तवतू १ ॥ धातोरतीते काले क्तक्तवतू प्रत्ययौ भवतः ॥ भावकार्ययोः क्तः । क्तवतुः कर्तर्येव ॥ उकावितौ । उtमर्थः । ष्णा शौचे । स्नातं त्वया । आगम्यते स्म तत् आगतम् । स्थीयते स्म तत् स्थितं देवदत्तेन । भावस्यैकत्वादेकवचनं नपुंसकत्वं च । भावे नपुंसकता ॥
अन्तः प्रान्तेऽन्तिके नाशे स्वरूपे च मनोहरे।
धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते ॥ ८॥ क्रियते स्माऽसौ कृतः कटस्तेन । स कटं कृतवान् । करोति स्माऽसौ कृतवान् । कृष्णः सर्वं कृतवान् । बितो नुम् (सू० २९२) इति नुमागमः ॥ १२७१ गत्यर्थादकर्मकाच कर्तरि क्तः २॥ गत्यर्थादकर्मकाच्च कतरिक्तः प्रत्ययो भवति ॥ चाद्भावकर्मणोरपि ।। लोपस्त्वनुदात्ततनाम् (सू० ८८६) गच्छति स्म इति गतः । स्थामी (सू० १२४३ ) तिष्ठति स्म इति स्थितः । कृतः (सू० ११९०) अटति म इति अटितः । शम दम उपशमे ॥ १२७२ जमान्तस्य कृिति झसे दीर्घः ३ ॥ ञमान्तस्य धातो| भवति किति झसे परे किपि वा ॥ शाम्यति स्म इति शान्तः । दाम्यति स्म इति दान्तः । टुवम् उद्गिरणे । वमति स्म इति वान्तः ॥ १२७३ यस्य कचिद्विकल्पेनेट् तस्य निष्ठायां नेइ वाच्यः ४ ॥ अधिशी
स्थाऽऽसां कर्म (सू० ४२९) ॥ १२७४ श्लिष्शीइन्स्थाआस्श्रिवसूजनरुहजीर्यतीनां सोपसर्गत्वेन सकर्मकाणामपि कर्तरि