SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ सू० १२७५-१२८९] निष्ठाधिकारप्रक्रिया २ २३१ तो वाच्यः ५॥ रमामाश्लिष्यति स्मेति आश्लिष्टः हरिः । हरी रमामाश्लिष्टः। शेषमधिशिश्ये इति अधिशयितः को विष्णुः । शेषमधिशयितो विष्णुः । खर्गमधितष्ठाविति खर्गमधिष्ठितः । उपासांचके इति उपासितः भक्तो हरिम् । भक्तो हरिमुपासितः । आश्रयति स इति आश्रितः । एकादशीमुपोवास इति उपोषितः वा हरिदिनमुपोवास इति उपोषितः ॥ १२७५ वसिक्षुध्योरिट् ६ ॥ आभ्यां नित्यमिट् स्यात् ॥ घसादेः षः (सू० ८३२) राममनुजज्ञे इति अनुजातोऽच्युतः तमनुजातः । वृषमारुरोह इति आरूढः शिवः । जृष् वयोहानौ । ऋत इर् (सू० ८२०)। य्वोर्विहसे (सू० ३१६) जगत् अनुजजार इति अनुजीर्णोऽच्युतः । जगदनुजीर्णो वासुदेवः॥१२७६ र ७ ॥ रेफादुत्तरस्य क्तस्य नो भवति ॥ णत्वम् ॥ पक्षे तेन रमाश्लिष्टा हरिणा इत्यादि ज्ञेयम् ॥ १२७७ तो वा सेट ८॥ उकारोपधान्मृषश्च परः सेट् क्तः प्रत्ययः किद्वा भवति ॥ दिद्युते तत् द्युतितम् । द्योतते स्म तत् द्योतितम् । प्रकर्षण दिद्युते स्माऽसौ प्रद्युतितः । प्रकर्षेण द्युतं प्राप्तः वा प्रद्योतते स्माऽसौ प्रद्योतितः ॥ मृष क्षान्तौ संपूर्वः । सम्यक् ममृषे तत् संमृषितं-संमर्षितम् । उदयं प्राप्तः उद्यते स्माऽसौ उदितः । रोदनं प्राप्तः रोदितः वा रोदिति स्माऽसौ रोदितः-रुदितः । मुष्यते स्माऽसौ मोषितःमुषितः । ग्रहां विति च (सू० ८७३ ) गृह्यते स्माऽसौ गृहीतः । नुद्यते स्म इति नोदितः नुदितः । वेदितः-विदितः ॥ १२७८ शीङ्खिदिमिदिश्विदिधृषुपूङ क्षेमार्थे ९ ॥ एभ्यः परौ सेटौ तक्तवतू प्रत्ययौ कितौ न भवतः ॥ १२७९ पूडो वा क्तः सेटू १०॥ पूङः परस्य क्तप्रत्ययस्येडा भवति ॥ पूङ् शोधने । पुपूवेऽसौ पवितः पूतः । शिष्येऽसौ शयितः ॥ १२८० कित: ११ ॥ उवर्णान्तात्
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy