SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २३२ सारस्वतव्याकरणम् । [ वृत्तिः ३ ऋवर्णान्तात् श्विश्रियश्च धातोः परस्य कित्प्रत्ययस्य वसादेः इट् न भवति ॥ बभूवेत्यसौ वा भवति स्म इति भूतः । णु स्तुतौ । नौति स्म इति नुतः । वृञ् वरणे । ववार इति वृतः । टुओश्विर्गतिवृद्ध्योः । शिश्वायेति श्वितः । श्रयते स्म इति श्रितः ॥ १२८१ श्वयतेः संप्रसारणस्य दीर्घः १२॥ अशिश्वियदिति शूतः ॥ १२८२ आदीदितः १३ ॥ आदितः ईदितश्च परस्य तस्येट् न भवति ॥ १२८३ जीतां तक वर्तमानेऽपि १४ ॥ जीतां धातूनां मतिबुद्धिपूजार्थानां च वर्तमानेऽपि तक प्रत्ययो भवति । अपिशब्दात् भावकर्मणोरपि ॥ १२८४ दस्तस्य नो दव १५ ॥ दकारादुत्तरस्य कितस्तस्य नत्वं भवति ॥ चकाराद्दकारस्य नकारो भवति ॥ ञिमिदा स्नेहे ॥ १२८५ आदितः कर्मणि निष्ठा कर्तरि च वाच्या १६ ॥ मिद्यते तत् मिन्नं । मिन्नमन्नं तैलेन वर्तते ।। १२८६ भावे कर्तरि चादितः तस्येट् वा वाच्यः १७ ॥ १२८७ मिदेर्गुणः १८ ॥ मेद्यतेऽसौ मेदितः । मिद्यते तत् मेदितम् । ह्लाद आह्लादने || १२८८ निष्ठायां हस्वो वाच्यः १९ ॥ ह्रादतेऽसौ हृन्नः । ञिष्विदा गात्रप्रक्षरणे ह्लादने च । आयासेन प्रस्विद्यतेऽसौ प्रखिन्नः । प्रखेदितः । खेदितं तेन । ञिविदा संचूर्णने । क्ष्विद्यतेऽसौ क्ष्विण्णः । विद्यते तत् क्ष्वेदितं तेन । ञिधृषा प्रागल्भ्ये । खादिषु । धष्णोतीति धर्षितः धृष्टः । मन्यतेऽसौ मतः। बुध अवगमने । बुद्ध्यतीति बुद्धः । पूज अर्चायाम् । पूजतीति पूजितः सः । ञीतां तक् वर्तमानेऽपि इत्यपिशब्दात् ज्ञार्चे - च्छार्थशीलादेस्तक् । ज्ञा अवबोधने । अर्च पूजायाम् । इषु इच्छायाम् । शील स्वभावे । एतेषां तक् भवति ॥ ज्ञातः । अर्चितः । इष्यतेऽसौं एषितः । शील्यतेऽसौ शीलितः ।। १२८९ क्तस्य च वर्तमाने २० ॥ वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् ॥ तेन राज्ञां पूजितः । 1 ५
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy