SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ सू०१२५३-१२६४] कृदन्तप्रकरणम् १ २२७ नीवृत् । व्यध ताडने।ग्रहां किति च (सू० ८७३) मर्माणि विध्यतीति मर्मावित् । वृष वृष्टौ। प्रकर्षेण वर्षतीति प्रावृट् । रुच दीप्तौ । नितरां रोचतेऽसौ नीरुक् ॥ १२५३ गम्यम्नम्हन्तनादीनां विपि जमस्य लोपो वाच्यः क्यपि वा ६७ ॥ तुक् । परितः तनोतीति परितत् । कटं चिकीर्षतीति कटचिकीः । चिकीर्षतेः विप् । यतः (सू० ७८३) इत्यकारलोपः । दोषाम् (सू० २९७) इति षस्य रेफः । रिलोपो दीर्घश्च (सू० ११७ ) इति मध्यमरेफस्य लोपः ।। नतु संयोगान्तस्य लोपः । रसे पदान्ते चेति चकारात् ।। रात्सस्य (सू० ९०५) स्रोविसर्गः (सू० १२५) कटचिकीर्षों कटचिकीर्षः । वह प्रापणे । यजां यवराणाम् (सू० ८३१) अनो वहतीति अनडान् ॥ १२५४ किबन्ते वह्यनसो डान्तादेशो वाच्यः ६८ ॥ अनड्डाहौ अनड्डाहः । राज़ दीप्तौ । मो राजि समः क्को (सू० २७८) सम्यक् राजतेऽसौ सम्राट् । ध्यै चिन्तायाम् ॥ १२५५ ध्यायतेः किपि संप्रसारणं दीर्घता च वक्तव्या ६९ ॥ मुष्ठु ध्यायतीति सुधीः ॥ १२५६ द्युतिगमिजुहोतीनां किपि कचित् द्वित्वं वाच्यम् ७० ॥ हसादिः शेषाभावः ॥ १२५७ द्योततेः कचित्पूर्वस्य किपि संप्रसारणं वाच्यम् ७१ ॥ द्योततेऽसौ विद्युत् । गच्छति उत्पत्तिस्थितिलयान् प्राप्नोतीति जगत् । जुहोतेीर्वश्च । जुहोत्यनया सा जुहूः ॥ १२५८ दृशेष्टक्सको चोपमाने कार्ये ७२ ॥ दृशेर्धातोः सर्वादिषु टक्सको प्रत्ययौ भवत उपमाने कार्ये सति ॥ जकारात् विप् वक्तव्यः ॥ १२५९ आ सर्वादेः ७३॥ एतेषु प्रत्ययेषु परेषु सर्वादेः पूर्वस्य टेरात्वं भवति ॥ दृशिर प्रेक्षणे । अन्यइव दृश्यतेऽसौ अन्यादृशः । छशवराजादेःषः (सू० २७६)। षढोः कः से (सू० ७९८)। किलात् (सू० १४१) अन्यादृशः
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy