SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २५४ सारस्वतव्याकरणम् । [ वृत्तिः 1 चेतुमर्ह चेयम् । नेयम् । जेयम् । भीयते तत् भेयम् ॥ १४२५ असरूपोऽपवादः प्रत्ययोऽस्त्रियां वा बाधकः सरूपस्तु नित्यम् ३ ॥ चीयते वा चेतुमर्ह चेतव्यं चयनीयम् । चिकीर्ष्यते वा चिकीर्षितुम चिकीर्ष्यम् । दातुमिच्छतीति दित्सति वा दित्स्यते इति दित्स्यम् ॥ १४२६ क्षय्यजय्यौ शक्यार्थे निपात्येते ४ ॥ क्षेतुं शक्यं क्षय्यं । जेतुं शक्यं जय्यम् । अन्यत्र क्षेयं पापं जेयं मनः । क्षय्यजय्यौ चेति चकारादजर्यमिति निपात्यते । न जीर्यतीत्य जयें संगतम् ॥ १४२७ इच्चातः ५ || आकारान्ताद्धातोर्यः प्रत्ययो भवति आकारस्य च इकारादेशः ॥ दीयते वा दातुमर्ह देयम् । ज्ञातुं योग्यं ज्ञेयम् । गीयते तत् गेयम् । ग्लेयम् । पातुम पेयम् । धीयते तत् धेयम् ॥ १४२८ पुशकात् ६ ।। पवर्गान्तात् शकादेश्च यः प्रत्ययो भवति भावादौ ॥ शप् उपालम्भे आक्रोशे च । शप्यते इति शप्यम् । जतुं योग्यं जप्यम् । सरूपत्वात् पक्षे न ध्यण् । शक्यम् । शक् सह गद् मद् चर् यम् तक् शस् चत् यत् पत् जन् हन् शल रुच् एते शकादयः । षह मर्षणे । सोढुं शक्यं शक्यते सह्यते वा सोढुम सह्यम् । गद्यते वा गदितुमर्ह गद्यम् । मद्यते वा मदितुमर्ह मद्यम् । चरितुमर्ह चर्यम् । यम्यम् । तक् हसने । तक्यते वा कितुम तक्यम् । शसु हिंसायाम् । शसितुमर्ह शस्यम् । चते माने । चते कान्तौ । चत्यते इति चत्यम् । यत्यम् । 1 पत्यम् । जन्यम् ॥ १४२९ हनो वधादेशो ये ७ ॥ हन्यते वा हन्तुमर्हे वध्यम् । शल शोभायाम् । शल्यम् । रोचितुं शक्यं रुच्यम् । डुलभष् प्राप्तौ । लब्धुं योग्यं लभ्यम् । यम् मैथुने । यब्धुं शक्यं यभ्यम् । शक् सामर्थे । शक्ल शक्तौ । शक्यते तत् शक्यम् ॥ १४३० ऋहसात् घ्यणू ८ ॥ ऋवर्णान्साद्धसान्ताच्च धातोर्ध्य‍ 1
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy