________________
सू० १४२३-१४३०] कृत्यप्रक्रिया ७ २५३ खल्यू २३ ॥ ईषदादिषु प्रयुज्यमानेषु खल्यू इत्येतौ प्रत्ययौ भवतः भावादौ ॥ लकारः प्रत्ययभेदज्ञापनार्थः । खकारो गुणविधानार्थः ॥ मुमागमार्थश्च । ईषत्सु अकृच्छ्रार्थौ । दुःकृच्छ्रार्थः । ईषदनायासेन भूयते इति ईषद्भवः । दुर्भवः । सुभवः । ईषदनायासेन क्रियते इति ईषत्करः प्रपञ्चो हरिणा । दुःखेन क्रियते इति दुष्करः। सुखेन क्रियतेऽसौ सुकरः । ईषदाढ्यः क्रियते अनेनेति ईषदाव्यंकरः। आब्यंकरश्चैत्रो भवता । ईषत् पीयते असौ ईषत्पानः सोमो भवता। दुष्पानः । सुपानः । युधि संप्रहारे । दुःखेन योधयितुं शक्यः दुर्योधनः । सुखेन योधयितुं शक्यः सुयोधनः। ईषत्शासनः । दुःखेन शासयितुं शक्यः दुःशासनः । सुशासनः ॥ इति कृदन्ते भावाधिकारप्रक्रिया ॥६॥
कृत्यप्रक्रिया ७ अथ कृत्यप्रक्रिया ॥ तव्यादीनां कृत्यसंज्ञा पाणिनीयानाम् । कृत्यादि भावकर्मणोरेव ॥ १४२३ तव्यानीयौ १॥धातोस्तव्यानीयौ प्रत्ययौ भवतः भावादौ ॥ एध वृद्धौ । एध्यते वा एधितुमर्ह एधितव्यं एधनीयं धनं त्वया । भावस्यैकत्वादेकवचनं नपुंसकत्वं च । भूयते वा भवितुमहं भवितव्यं भवनीयम् । क्रियते वा कर्तुमर्ह कर्तव्यं करणीयम्। आस्यते वा आसितुमर्ह आसितव्यं आसनीयम् । कर्तव्यः करणीयो वा धर्मस्त्वया । या प्रापणे । प्रयातुमर्ह प्रयातव्यं प्रयाणीयम् । ईटो ग्रहाम् (सू० ८२१) गृह्यते तत् ग्रहीतव्यं ग्रहणीयम् । वृक संभक्तौ । बियते वा वरितुं योग्यं वरितव्यं वरीतव्यम् वरणीयम् । वृञ् वरणे । वियते तत् वरितव्यं वरीतव्यं वरणीयम् ॥ १४२४ खरायः २॥ खरान्ताद्धातोर्यः प्रत्ययो भवति भावादौ । चीयते वा