________________
सू० १४३१-१४४८] कृत्यप्रक्रिया ७
२५५ प्रत्ययो भवति भावादौ ॥ घकारो घित्कार्यार्थः । णकारो वृद्ध्यर्थः । क्रियते वा कर्तुमर्ह कार्यम् । वृञ् वरणे । वियते तत् वार्यम् । चार्यम् । हस हसने । हास्यम् । ह्रियते तत् हार्यम् । हनो घत् (सू० १०४६) हन्यते तत् घात्यम् । चजोः कगौ घिति (सू० १३५७) पक्तुं योग्यं पाक्यम् । याच्यते तत् याच्यम् । रुज्यते तत् रोज्यम् । वच परिभाषणे ॥ १४३१ वचः शब्दसंज्ञायां कुत्वं वाच्यम् ९॥ तेन वाक्यम् । अन्यत्र वाच्यम् ॥ १४३२ यज्याच्वचूरुच्प्रवच्अत्यपूजूगर्जुभुजां घ्यणि कुत्वाभावः १० ॥ याज्यम् । याच्यम् । वाच्यम् । रोच्यम् । प्रवाच्यम् । अयम् । त्याज्यम् । पूज्यम् । गर्ज शब्दे । गय॑ते तत् गर्व्यम् । भुज्यते तत् भोज्यम् । बाधू हिंसायाम् । बाधितुं योग्यं बाध्यम् । भजितुं योग्यं भाज्यम् ॥ १४३३ ओरावश्यके घ्यण ११ ॥ उवर्णान्ताद्धातोरावश्यकेऽर्थे ध्यण् प्रत्ययो भवति ॥ १४३४ ओदौतोर्यः प्रत्ययः खरवत् १२ ॥ धातोरोकारौकारयोनिमित्तं वा संबन्धी यः प्रत्ययः स खरवत् स्यात् ॥ ॥ समासे अवश्यमादीनामन्तलोपमिच्छन्ति शाब्दिकाः॥
लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि।
समो वा हितततयोर्मासस्य पचि युधजोः ॥१॥ लूञ् छेदने । लूयते वा लवितुं योग्यः लाव्यः । अवश्यं लाव्यो अवश्यलाव्यः । भोक्तुं कामो यस्य स भोक्तुकामः । श्रोतुं मनो यस्य स श्रोतुमनाः । सम्यक्प्रकारेण हितं सहितं संहितम् । संतत-सततम् । मांसस्य पचनं मांसपचनम् । युड्योः पचि परे मांसस्याकारो वा लुम्पेत् । मांसस्य पचनं मांसूपचनम् । मांसस्य पाकः मांस्पाकः मांसपाकः ॥ १४३५ ऋदुपधात् क्यप् १३ ॥ ऋका