SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २५६ सारस्वतव्याकरणम् । [ वृत्ति: ३ रोपधाद्धातोः क्यप् प्रत्ययो भवति भावकार्ययोः । कृती छेदने । कर्तितुमर्हे कृत्यम् । नितरां कर्तितुं योग्यं निकृत्यम् । वृद्ध्यत् । वृत्यते तत् वृत्यम् ॥ १४३६ कृपिवृत्योर्न क्यप् १४ ॥ कृपू सामर्थ्ये । कृपो रो लः (सू० ८५७) कल्पितुं योग्यं कल्प्यम् । नृत दीप्तौ । चर्त्यम् || १४३७ मृजो वा क्यप् १५ ॥ मृज्यं मार्ग्यम् ॥ १४३८ हस्वाच्च क्यप् १६ ॥ हखान्ताद्धातोर्भावे क्यप् प्रत्ययो भवति ॥ तस्य ग्रहणे तदन्तस्य ग्रहणम् । क्रियते तत्कृत्यम् ॥ १४३९ कृञः क्यपि वा रिङ् वक्तव्यः तुगभावश्च १७ ॥ कृत्या क्रिया ॥ ९४४० ङिदनेकाक्षरोऽप्यादेशस्तदन्तस्यैव वक्तव्यः १८ ॥ १४४१ गुप्गुहोः क्यप् १९ ॥ गोप्तुं योग्यं गुप्यम् । गूहितुं योग्यं गुह्यम् ॥। १४४२ वदेः क्यपू भावादौ २० ॥ वदेर्धातोः क्यप् प्रत्ययो भवति भावादौ ॥ मृषा उद्यते इति मृषोधम् । ब्रह्मणा उद्यते या कथा सा ब्रह्मोद्या ॥। १४४३ ग्रहेः क्यप् २१ ॥ अर्जुनगृह्या सेना || १४४४ भुवो भावे क्यप् २२ ॥ नाम्नि उपपदे भुवो भावे क्यप् प्रत्ययो भवति ॥ ब्रह्मणो भावः ब्रह्मभूयं गतः । ब्रह्मणा भूयते तत् ब्रह्मभूयम् । नाम्नि किम् । भवितव्यं भव्यम् || १४४५ इणू स्तु वृ द्द भृ शास् जुषु खन् एभ्यः क्यप् वाच्यः २३ ॥ तुक् । ईयते इति इत्यः । स्तुत्यः । वृत्यः । दृङ् आदरे । दृत्यः । भृत्यः । शासेरिः ( सू० ९१६ ) शिष्यः । जुष् प्रीतिसेवनयोः । जुष्यः || १४४६ खन एवं क्यपि वाच्यम् २४ ॥ खन्यते इति खेयम् ॥ ९४४७ भिद्योध्यौ नदे निपात्येते २५ ॥ भिनत्ति कूलमितिभिद्यः । उज्झ उत्सर्गे । उज्झति जलमिति उच्यः नदः । नदे किम् । भेत्ता उज्झिता । १४४८ कृवृष्योर्वा क्यप् २६ ॥ क्रियते तत् कृत्यम् । कर्तुं
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy