SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४८ सारस्वतव्याकरणम् । [ वृत्तिः २ आदाथई । अकारान्तात्परस्य आतआथसंबन्धिन आकारस्येकारो भवति । अ इ ए (सू० ४३ ) एधेते । धर्मादेधतेऽदो राज्यं । विघिसंभावनयोरित्यादीनि नव वचनानि । एधेत । एधताम् ऐधत । कासादिप्रत्ययादाम् ( सू० ७६६ ) एधांचक्रे || ८३८ आम्प्रत्ययों यस्माद्विहितः स चेदात्मनेपदी तर्हि अनुप्रयुक्तकृञ आत्मनेपदं वसोर्नात्मनेपदम् १ || धामास एधांबभूव | विधानसामर्थ्यादस्तेर्भूभावो न । इट् । एधिषीष्ट । एधिता । एधिष्यते । ऐधिष्यत । ऐधिष्ट ऐधिषाताम् । ईक्ष दर्शनाङ्कनयोः । ईक्षते । ईक्षेत | ईक्षताम् । ऐक्षन्त । ईक्षांचक्रे । ईक्षिषीष्ट । ईक्षिता । ईक्षिष्यते । ऐक्षिष्यत । ऐक्षिष्ट । दद दाने । ददते । ददे । ददताम् । अददत् । शशददवा ( सू० ७७३ ) इति नैत्वपूर्वलोपौ । दददे दददाते दददिरे । ददिषीष्ट । ददिता । ददिष्यते । अददिष्यत् । अददिष्ट । ष्वष्क गतौ । नामधातु ( सू० ७५३ ) अनेन सत्वाभावः । ष्वष्कते ष्वष्केत । ष्वष्कताम् । अष्वष्कत । षष्वष्के । ष्वष्किषीष्ट । ष्वष्किता । ष्वष्किष्यते । अष्वष्किष्यत । अष्वष्किष्ट अष्वष्किषाताम् । ऋज गतौ स्थैर्ये स्पर्शे च । उपधाया लघोः (सू० ७३५) अर्जते । अर्जेत । अर्जताम् । आर्जत | नुगशाम् । ( सू० ७६४ ) आभ्वोर्णादौ ( सू० ७१२ ) आनृजे । अर्जिषीष्ट । अर्जिता । अर्जिष्यते । आर्जिष्यत । आर्जिष्ट । ष्वञ्ज परिष्वञ्जने । सत्वम् । अपिरञ्जदंशषञ्जष्वञ्जाम् (सू० ८२३ ) खजते । खजेत । खजताम् । अखजत । सखजे सखञ्जाते सखजिरे || ८३९ स्वजतेर्णादौ वा कित्वम् २ ॥ सखजे सखजाते सखजिरे । चोः कुः (सू० २८५) खसे चपाः ( सू० ८९ ) षत्वम् । कषसंयोगे क्षः ( सू० २४२ ) खङ्क्षीष्ट । खक्ता । T
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy