________________
सू० ८३२-८३९] भ्वादिष्वात्मनेपदिनः २ १४७
यजिर्वपिर्व हिश्चैव वेब्व्येौ ह्वयतिः खपिः ।
वदवसी श्वयतिर्वक्तिरेकादश यजादयः ॥१७॥ सवर्णे दीर्घः हस (सू० ५२ ) ॥८३२ घसादेः षः १५१॥ घसिशासिवसीनां सस्य षो भवति षत्वनिमित्ते सति ॥ ऊषतुः ऊषुः उवसिथ-उवस्थ । संप्रसारणम् । षत्वम् । उष्यात् । वस्ता ॥ ८३३ सस्तोऽनपि १५२ ॥ सकारस्य तकारो भवति अनपि सकारे परे। वत्स्यति अवत्स्यत् । वृद्धिः । अवात्सीत् । झसात् (सू० ७५६) प्रत्ययलोपे प्रत्ययलक्षणमिति न्यायात् । अवात्ताम् । अवात्सुः । वद व्यक्तायां वाचि । वदति । वदेत् । वदतु । अवदत् । ववाद ऊदतुः ऊदुः । उवदिथ । उद्यात् । वदिता । वदिष्यति । अवदिप्यत् । अवादीत् । टुओश्विर गतिवृद्ध्योः । टुकारोकारौ कार्याौँ । इर् इत्संज्ञकः । श्वयति । श्वयेत् । श्वयतु । अश्वयत् ॥ ८३४ श्वयतेर्णादौ प्रथमं संप्रसारणं वा वक्तव्यम् १५३ ॥ ततो द्वित्वम् । शुशाव शुशुवतुः शुशुवुः । शुशविथ । संप्रसारणाभावपक्षे शिश्वाय शिश्वियतुः शिश्वियुः । शिश्वयिथ । संप्रसारणम् । ये (सू० ७७९) शूयात् । श्वयिता । श्वयिष्यति । अश्वयिष्यत् ॥ ८३५ श्वयतेः सौ वृद्ध्यभावो वाच्यः १५४ ॥ अश्वयीत् अश्वयिष्टाम् अश्वयिषुः । इरितो वा (सू० ७४०)॥ ८३६ श्वयतेरिलोपो ङे वक्तव्यः १५५ ॥ अश्वत् ॥ ८३७ श्वयते द्वित्वं वा १५६ ॥ अशिश्वियत् इत्यादि ॥ इति भ्वादिषु परस्मैपदिनः ॥ १॥
भ्वादिष्वात्मनेपदिनः २ अथ भ्वादिष्वात्मनेपदिप्रक्रिया ॥ एध वृद्धौ । अकार आत्मनेपदार्थः । ततः पराणि तिबादिवचनानि । अप् कर्तरि । एधते ।