________________
सारस्वतव्याकरणम् ।
[वृत्तिः
२
अभ्राम्यत्-अभ्रमत् । बभ्राम ॥ ८२८ फणादीनामेत्वपूर्वलोपौ वा वाच्यौ १४७॥
फणतिभ्रीजिराजी च भ्राशिभ्लाशी स्यमिस्वनी।
भ्रमित्रसी जीर्यतिश्च दशैते तु फणादयः ॥ १५ ॥ भेमतुः-बभ्रमतुः भ्रमुः-बभ्रमुः । श्रेमिथ-बभ्रमिथ । भ्रम्यात् । अमिता । भ्रमिष्यति । अभ्रमिष्यत अभ्रमीत् । टुवम् उद्दिरणे । टु इत्संज्ञकः । वमति वमेत् । वमतु । अवमत् । ववाम ॥ ८२९ वम एत्वपूर्वलोपौ वा वाच्यौ १४८ ॥ वेमतुः ववमतुः वेमुः ववमुः । वम्यात् । वमिता । वमिष्यति । अवमिष्यत् । अवमीत् । फण गतौ । फणति । फणेत् । फणतु । अफणत् । पफाण फेणतुः फेणुः । फण्यात् । फणिता । फणिष्यति । अफणिष्यत् । अफाणीत्-अफणीत् । खन स्यम् शब्दे । खनति । खनेत् । खनतु । अ. खनत् । सखान खेनतुः खेनुः । खन्यात् । खनिता । खनिष्यति । अखनिष्यत् । अखानीत्-अखनीत् । वस निवासे । वसति। वसेत् । वसतु । अवसत् । वसू णप् इति स्थिते । द्वित्वम् ॥ ८३० णबादौ पूर्वस्य १४९ ॥ णबादौ परे यजादीनां ग्रहादीनां च पूर्वस्य संप्रसारणं भवति । यकारवकाररेफाणामिकारोकारऋकारा भवन्ति । सखरस्य संप्रसारणं दीर्घस्य दी| ह्रखस्य हूखः ॥
गृहिावयीव्यधिर्वष्टिविचतिवृश्चतिस्तथा ।
पृच्छतिभृजतिश्चैव नवैते तु ग्रहादयः ॥१६॥ पूर्ववकारस्योत्वे । अत उपधायाः ( सू० ७५७ ) उवास । उवस् अतुस् इति स्थिते ॥ ८३१ यजां यवराणां स्वृतः संप्रसारणं किति १५०..॥ यजादीनां संप्रसारणं भवति. किति परे ।