________________
सू० ८२४-८३१] भ्वादयः परस्मैपदिनः १
१४५
क्ष्यति रक्ष्यते । अरक्ष्यत् अरक्ष्यत । अराङ्क्षीत् । चोः कुः (सू० २८५) खसे चपा (सू० ८९) षत्वम् । अराङ्क्ताम् अराक्षुः । अरङ्क्त अरङ्क्षाताम् । अरङ्कत । दंश दंशने । दशति । दशेत् । दशतु । अदशत् । ददंश ददंशतुः ददंशुः । ददंशिथ ददंष्ठ ददंशथुः । दश्यात् । ष्टुत्वम् । दंष्टा । दक्ष्यति । अदक्ष्यत् । णित्पे (सू० ७५९) णित्वाद्वद्धिः । षढोः कः से (सू० ७९८) अदाङ्क्षीत् । षञ्ज सङ्गे । सजति । सजेत् । सजतु । असजत् । ससञ्ज ससञ्जिथ-ससक्थ । सज्यात् । सङ्क्ता । सक्ष्यति । असङ्ख्यत् । असाङ्क्षीत् असाङ्क्ताम् असाक्षुः । कित रोगापनयने संशये च ॥ ८२४ गुब्भ्यः १४३ ॥ गुप् तिच् कित् मान् बध् दान् शान् एभ्यः खार्थे सः प्रत्ययो भवति ॥ धातोश्च द्वित्वम् ॥ कुहोश्चुः (सू० ७४६) गुप्तिजूकिन्यः क्रमान्निन्दाक्षमारोगापनयनेषु सः । तेन गोपति तेजति केतति । सधातुः (सू० ७८२ ) गुबादिभ्यः सस्येण्नेष्यते ॥ ८२५ नानिटि से: १४४ ॥ इवर्जिते सप्रत्यये परे धातोर्गुणो न भवति ॥ तिप् । चिकित्सति । चिकित्सेत् । चिकित्सतु । अचिकित्सत् । चिकित्सांचकार चिकित्सामास चिकित्सांबभूव । चिकित्स्यात् । चिकित्सिता । चिकित्सिष्यति । अचिकित्सिष्यत् । अचिकित्सीत् । अचिकित्सिष्टाम् । पत्ल पतने । पतति । पतेत् । पततु । अपतत् । पपात पेततुः पेतुः । पत्यात् । पतिता । पतिष्यति । अपतिष्यत् । लित्पुषादेर्डः (सू० ७९१) ८२६ पते पुमागमो वाच्यः १४५ ॥ अपप्तत् । भ्रमु चलने ॥ ८२७ शमां दीर्घः १४६ ॥ शमादीनां दीर्घो भवति यकारे परे ॥ शम् दम् श्रम् भ्रम् क्षम् क्रम् मद् एते शमादयः । भ्राम्यति । भ्रमति । भ्रम्येत्-अमेत् । भ्राम्यतु-भ्रमतु ।
१०