SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ --रामस सू० ३४०-३४९] आदेशविशेषाः १३ देवो वामवताद्विष्णुर्नरकानौ जनार्दनः । , स्वामी वो बलवान् राजा स्वामी नोऽसौ जनार्दन गाना नमो वो ब्रह्मविज्ञेभ्यो ज्ञानं नो दीयतां धनम् । सानन्दान्वः प्रपश्यामः पश्यामो नः सुदुःखिनः ॥५२॥ ३४० त्वामामा २ ॥ अमा सहितयोर्युष्मदस्मदोस्त्वा मा इत्येतावादेशौ भवतः ॥ पश्यामि त्वा मदालीढं पश्य मा मदभेदकम् । पश्यामि त्वा जगत्पूज्यं पश्य मा जगतां पतिम् ॥ ५३॥ ३४१ नादौ ३ ॥ पादादौ वर्तमानयोर्युष्मदस्मदोनॆते आदेशा भवन्ति ॥ मम स्वामी भवेत्कृष्णस्तव स्वामी महेश्वरः। तव मित्राणि यानि स्युर्मम मित्राणि तान्यपि ॥५४ ॥ तव ये शत्रवो राजन्मम तेऽप्यतिशत्रवः । संबोधनपदादग्रे न भवन्ति वसादयः ॥ ५५ ॥ अमे तव । देवास्मान्पाहि ॥ ३४२ पदात्परयोरनयोरेते आदेशा वक्तव्याः ४ ॥ त्वां पातु मां पातु ॥ ३४३ एते आदेशा अन्वादेशे नित्यमनन्वादेशे वा वक्तव्याः ५॥ । यस्त्वं विश्वस्य जनकस्तस्मै ते विष्णवे नमः। . आनन्वादेशे तु त्वं मे मम वा देवोऽसि ॥ ३४४ विद्यमानपूर्वाप्रथमान्तात्परयोरनयोरन्वादेशेऽप्येते आदेशा वा वक्तव्याः ६॥ भक्तस्त्वमप्यहं तेन हरिस्त्वा त्रायते स मा ॥५६॥ ३४५ अचाक्षुषज्ञानार्थधातूनां योगे नैते आदेशा वक्तव्याः ७॥ चेतसा त्वामीक्षते ध्यायति सारतीति वा ॥ चाक्षुषज्ञानार्थधातुयोगे तु भक्तस्त्वा पश्यति चक्षुषा । युक्तयुक्तेऽपि निषेधः । भक्तस्तव रूपं
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy