________________
७२
सारस्वतव्याकरणम् ।
[वृत्तिः
१
अत्यस्माम् । अतियूयम् अतिवयम् । अतियुष्माम् अत्यस्माम् । अतियुष्मान् अत्यस्मान् । अतियुष्मया अत्यस्मया। अतियुष्माभ्याम् अत्यस्माभ्याम् । अतियुष्माभिः अत्यस्माभिः । अतितुभ्यम् । अतिमह्यम् । अतियुष्माभ्याम् अत्यस्माभ्याम् । अतियुष्मभ्यम् अत्यस्मभ्यम् । अतियुष्मत् अत्यस्मत् । अतियुष्माभ्याम् अत्यस्माभ्याम् । अतियुष्मत् अत्यस्मत् । अतितव अतिमम । अतियुष्मयोः अत्यस्मयोः । अतियुष्माकम् अत्यस्माकम् । ( अतियुष्मयाम् अत्यस्मयाम् इति केचित् ) अतियुष्मयि अत्यस्मयि । अतियुष्मयोः अत्यस्मयोः । अतियुष्मासु अत्यस्मासु ॥ अनेनैव प्रकारेण · सर्वमुन्नेयम् ॥ इति युष्मदस्मत्प्रक्रिया ॥ १२ ॥
आदेशविशेषाः १३ अथानयोरादेशविशेषविधिनिरूप्यते ॥ ॥ ३३९ युष्मदसदोः षष्ठीचतुर्थीद्वितीयाभिस्तेमे वांनौ वस्नसौ १॥ युष्मदस्मदोर्यथासंख्येनामी आदेशाः स्युः ॥ कीदृशयोः । षष्ठीचतुर्थीद्वितीयासहितयोः । सहितग्रहणाधुवयोः पुत्रः युष्मत्पुत्रः । आवयोः पुत्रः अस्मत्पुत्र इत्यादौ विभक्तिलोपे कृते आदेशा नेति ज्ञेयम् । तत्रैकवचनेन सह तेमे भवतः । द्विवचनेन वांनौ । बहुवचनेन वसनसौ च ॥ . स्वामी ते स समायातः स्वामी मे सांप्रतं गतः ।
नमस्ते भगवन् भूयो देहि मे मोक्षमव्ययम् ॥ ४९ ॥ .. स्वामी वां स जहासोचैदृष्ट्वा नौ दानयाचनाम् । .. .. राजा वां दास्यते दानं ज्ञानं नौ मधुसूदनः ॥ ५० ॥