________________
७४
सारस्वतव्याकरणम् । [वृत्तिः १ ध्यायति ध्यायते । रूपेण सह सम्बन्धाध्यानेन युक्तं रूपं तद्रूपेण युक्तस्य तवेत्यस्य युक्तयुक्तत्वात् ॥
संबोधनपदादग्रे न भवन्ति वसादयः । ३४६ विशेष्यपूर्व संबोधनेतरपूर्व संबोधनं हित्वा अन्यसात्संबोधनात्परयो ते आदेशा भवन्ति ८ ॥ इति केचित् ।।
देवासान्पाहि नृहरे विष्णोऽस्मान्पाहि सर्वतः ॥ ५७॥ विशेष्यपूर्वात् । हरे कृपालो नः पाहि । संबोधनेतरपूर्वात् । सर्वदा रक्ष देव नः ॥ ३४७ चादिभिश्च ९॥ चादिभिरपि योगे नैते आदेशा भवन्ति ॥
युवयोरावयोश्चेशो हरिर्मामेव रक्षतु ।
तुभ्यं मह्यं च देवेशो दद्याच्छं तुभ्यमेव च ॥ ५८॥ च वा ह अह एव । आदिशब्देनैते पञ्चैव गृह्यन्ते नान्ये । 'नचवाहाहैवयोगे' इति पाणिनीयवचनात् ॥ साक्षाद्योगेऽयं निषेधः। न पुनर्युक्तयुक्ते शिवो हरिश्च मे खामीत्यादौ ॥ ३४८ चादिनिपातः १० ॥ च वा ह अह एव एवं नूनम् पृथक् विना नाना खस्ति अस्ति दोषा मृषा मिथ्या मिथस् अथो अथ ह्यस् श्वसू उच्चैस् नीचैस् स्वर अन्तर् प्रातर् पुनर् भूयस् आहो खित् सह नम ऋते अन्तरेण अन्तरा नमस् अलम् कृतम् । अमानोनाः प्रतिषेधे । ईषत् किल खलु वै आरात् दूरात् भृशं यत् तत् । खराश्च ॥ इत्येवमादिगणो निपातसंज्ञो भवति ॥ द्रव्यवचनो नेति ज्ञेयम् ॥ ३४९ तत्रादिविभक्त्यर्थे निपात्यते ११ ॥ तस्मिन्निति तत्र । यस्मिन्निति यत्र । कस्मिन्निति कुत्र कुह क । अस्मिन्निति अत्र । तस्मिन्काले तदा । यस्मिन्काले यदा। कस्सिन्काले कदा। अन्यस्मिन्काले अन्यदा । सर्वमिन्काले सर्वदा । तेन प्रकारेण तथा । येन प्रकारेण यथा ।