SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सू० ३५०-३६२] आदेशविशेषाः १३ ७५ केन प्रकारेण कथम् । अनेन प्रकारेण इत्थम् । सर्वथा उभयथा अन्यथा अन्यतरथा इतरथा । तस्मादिति ततः । यस्मादिति यतः । अस्मादिति अतः । कुतः अमुतः युष्मत्तः अस्मत्तः भवत्तः । सार्वविभक्तिकस्तस् इत्येके । पूर्वतः सर्वतः । पूर्वस्मिन्निति पुरस्तात् । अधरस्मिन्नित्यधस्तात् । परस्मिन्निति परेण-परस्तात् ॥ ३५० आहिच्च दूरे १२ ॥ दूरेऽर्थे वाच्ये सति आहिच् प्रत्ययो भवति । दक्षिणस्यां दिशि दूरे इति दक्षिणाहि वसन्ति चाण्डालाः । चकारादाच् । दक्षिणा ॥ ३५१ किमः सामान्ये चिदादिः १३ ॥ सर्वविभक्त्यन्तारिकशब्दात्सामान्येऽर्थे चित् चन च इत्येते प्रत्यया भवन्ति ।। कश्चित् कश्चन । कचित् वचन ॥ ३५२ तदधीनकालयेयोर्वा सात् १४ ॥ तदधीनार्थे काार्थे वा सात्प्रत्ययो भवति ॥ राज्ञोऽधीनं राजसात् । सर्व भस्म इति भस्मसात् । अग्नेः अधीन. मित्यग्निसात् ।। सात्प्रत्ययस्य षत्वं नेच्छन्ति ॥ ३५३ ऊर्युरर्यङ्गीकरणे १५ ॥ ऊरीकृत्य उररीकृत्य ॥ ३५४ सद्यादिः काले निपात्यते १६ ॥ सद्यः अद्य सपदि अधुना इदानीम् सम्प्रति साम्प्रतम् पूर्वेद्युः परेद्युः आशु शीघ्रम् झटिति तूर्णम् अपरेयुः यहि तर्हि जोषम् मौनम् अन्येद्युः ॥ ३५५ प्रादिरुपसर्गः १७ ॥ प्र परा अप सम् अनु अव निर निस् दुर् दुस् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप श्रत् अन्तर आविर् । अयं गण उपसर्गसंज्ञकः ॥ ३५६ प्राग्धातोः १८॥ उपसर्गाः प्राग्धातोः प्रयोक्तव्याः ॥ ३५७ तदव्ययम् १९॥ तदिदं प्रादिचादिशब्दरूपमव्ययसंज्ञं भवति ॥ ३५८ क्त्वाद्यन्तं च २० ॥ क्त्वाद्यन्तं शब्दरूपमव्ययसंगं भवति ॥ क्त्वा चि क्यप् तुम् णम् डाच् वतु आम् धा कृत्वसू शसू सु इत्यादि । कृत्वा गत्वा भूत्वा इत्यादि ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy