SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सारस्वतव्याकरणम्। [वृत्तिः १ प्रणम्य कर्तुं गातुं दुःखाकरोति घटवत् कुतस्तराम् ॥ ३५९ अव्ययाद्विभक्तेलुंक २१॥ अव्ययात्परस्या विभक्तेढुंग भवति ॥ आपश्चेति वक्तव्यम् ॥ ३६० न शब्दनिर्देशे २२ ॥ अव्ययानां शब्दत्वेन रूपनिर्देशे सति विभक्तेरलुग्भवति । अव्ययानां च न लिङ्गादिनियमः । तदुक्तं च ॥ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ ५९॥ उक्तान्यलिङ्गान्यव्ययानि ॥ इति आदेशविशेषप्रक्रिया ॥ १३ ॥ स्त्रीप्रत्ययप्रक्रिया १४ अधुना लिङ्गविशेषविजिज्ञापयिषया स्त्रीप्रत्ययाः प्रस्तूयन्ते ॥ आवतः स्त्रियाम् (सू० २३० ) जाया माया श्रद्धा मेधा धारा इत्यादि ॥ ३६१ अजादेश्वाप वक्तव्यः १॥ अजाश्वाकोकिलाबालावत्सादौ त्रिफलादिके। ईबादेरपवादार्थमजादेग्रहणं पृथक् ॥६० ॥ अजादेश्चेति चकारग्रहणाच्छूद्रा कन्यकेत्यादौ प्रथमवयोवाचकत्वेन जातिवाचकत्वेन च ईप् प्राप्तः सोऽजादित्वान्न भवतीति सूचितम् ॥ अजा एडका कोकिला बाला शूद्रा गणिका इत्यादि । ३६२ काप्यतः २ ॥ कापि इ अतः । स्त्रियां कापि परे पूर्वस्याकारस्य इकारो भवति ॥ कन्यकादौ न भवति ॥करोतीति कारिका। पचतीति पाचिका । पठतीति पाठिका ॥ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । . आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥६१॥ __ अवगाह्य वगाह्य । अपिहितम् पिहितम् । अपिधानम् पिधा
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy