________________
सू० ३६३-३८३ ] स्त्रीप्रत्ययप्रक्रिया १४
नम् ॥ ३६३ इखो वा स्त्रियाम् ३ ॥ आपि परे तरादौ च पूर्वस्य हखो वा भवति ॥ तरतमरूपकल्पास्तरादयः । वेण्येव वेणिका वेणीका । नद्येव नदिका नदीका । अतिशयेन प्रशस्या इति श्रेयसी । अतिशयेन श्रेयसी इति श्रेयसितरा श्रेयसीतरा ॥ ३६४ तरत: पूर्वस्य पुंवत् ४ ॥ श्रेयस्तरा । विदुषितरा विदुषीतरा-विद्वत्तरा । भवतितरा-भवतीतरा भवत्तरा । सतितरा-सतीतरा-सत्तरा । नौकादौ न भवति । नौका ॥ ३६५ आवन्तस्यानावन्तस्यापि कप्रत्यये परे बहुव्रीहौ वा ५ ॥ बहुमालकः बहुमालाकः । सुसोमपाकःसुसोमपकः । वाग्रहणादेवेयं विवक्षा। निश्चीय पतन्त्यनेकेष्वर्थेविति निपाताः । निपातानामनेकार्थत्वात् । उक्तं हि ॥
निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः ।
अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥६२॥ ३६६ रण ईप ६ ॥ नकारान्ताहकारान्तादण्णन्ताच स्त्रियामीप् प्रत्ययो भवति ॥ दण्डिनी करिणी मालिनी । [ ईपि राज्ञः अलोपो वक्तव्यः ] । राज्ञी । श्वादेः (सू० २५४) शुनी की ही औपगवी ॥ ३६७ यस्य लोपः ७ ॥ इश्व अश्च यः तस्य लोपो भवति खरे यकारे च परे ॥ विभक्तिवरं युप्रत्ययं च वर्जयित्वान्यस्मिन्खरे यकारे च परे इति ज्ञेयम् । तेन देवे वातायुः ऊर्णायुः इत्यत्र न भवति ॥ समासतद्धितस्त्रीप्रत्ययेष्वयं विधिर्वेदितव्यः ॥ ३६८ स्वस्रादीनामनन्तानां संख्यावाचिनां च नेप् वक्तव्यः ८ ॥
स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥ ६३ ॥ खसा दुहिता सीमा पञ्चेत्यादि ॥ ३६९ पादन्तात्त्रियामीप् वा वक्तव्यः ९॥ द्विपदी द्विपात् ॥ ३७० ऋचिपादन्तादादेव