________________
सू० ८४९-८५७ ] भ्वादिष्वात्मनेपदिनः २
१५१ ईहिष्यते । ऐहिष्यत । ऐहिष्ट ।। काशङ्दीप्तौ ।। काश्यते । काशेत । काशताम् । अकाशत । विद् दरिद्रा (सू० ७६७) काशांचके । चकाशे। काशिषीष्ट । काशिता । काशिष्यते । अकाशिष्यत । अकाशिष्ट । कास शब्दकुत्सायाम् । कासते । कासेत । कासताम् । अकासत। कासांचक्रे । चकासे । कासिषीष्ट । कासिता । कासिष्यते । अकासिष्यत । अकासिष्ट । षिवृ सेवने । सत्वम् । सेवते । सेवेत । सेवताम् । असेवत । सिषेवे सिषेवाते । सेविषीष्ट । सेविता । सेविष्यते । असेविष्यत । असे विष्ट । गाङ् गतौ । सवर्णदीर्घे कृते। आकारत्वात् । आतोऽन्तोदनतः (सू० ७२९) गाते गाते गाते । गेत । गाताम् । अगात । जगे जगाते जगिरे । गासीष्ट । गाता । गास्यते । अगास्यत । अगास्त अगासाताम् । रुङ् गतौ भाषणे च । गुणः (सू० ६९२ ) रवते । रवेत । रवताम् । अरवत अरवेताम् । अनेकखरत्वादसंयोगपूर्वत्वाञ्चोकारस्य वत्वे प्राप्ते ॥ ८४९ नानप्योव: १२ ॥ अनपि विषये धातोरुवर्णस्य वत्वं न भवति ॥ तत उव् । नुधातोः (सू० ७७६) रुरुवे रुरुवाते रुरुविरे । रविषीष्ट । रविता। रविष्यते । अरविष्यत । अरविष्ट । देङ् पालने । दयते । दयेते । दयताम् । अदयत ॥ ८५० दयतेर्णादौ दिग्यादेशो द्वित्वाभावश्व वक्तव्यः १३ ॥ दिग्ये । संध्यक्षराणामा (सू० ८०३ ) । दासीष्ट । दाता । दास्यते । अदास्यत ॥ ८५१ अपिद्दाधास्थामित्वं सेर्डित्वं आत्मनेपदे वाच्यम् १४ ॥ ङित्वान्न गुणः ॥ ८५२ लोपो हवाज्झसे १५॥ हखादुत्तरस्य सेोपो भवति झसे परे । अदित अदिषाताम् अदिषत । डीङ् विहायसा गतौ। डयते । डयेत । डयताम् । अडयत । नुधातोः (सू०७७६) डीडये । डयीषीष्ट । डयिता । डयिष्यते । अडयिष्यत । अडयिष्ट ॥ दैङ् त्रैङ्