SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १५२ सारस्वतव्याकरणम् । [ वृत्तिः २ 1 1 पालने । दायते । दायेत । दायताम् । अदायत ॥ ८५३ देङो णादौ दिग्यादेशो द्वित्वाभावश्च १६ ॥ दिग्ये । दासीष्ट । अपिदाधास्थामि ( सू० ८५१ ) लोपो हखाज्झसे ( सू० ८५२ ) अदित । त्रायते । तत्रे । अत्रास्त । द्युतङ् द्योतने । उपधाया लघोः ( सू० ७३५) द्योतते । द्योतेत । द्योतताम् | अद्योतत ॥ ८५४ द्युतेः पूर्वस्य संप्रसारणं वक्तव्यं णादौ परे १७ ॥ दिद्युते । द्योतिषीष्ट । द्योतिता । द्योतिष्यते । अद्योतिष्यत । अद्योतिष्ट ॥ ८५५ द्युतादिभ्यो लुङि वा परस्मैपदं वाच्यम् १८ ॥ लित्पुषादेर्ड: । (सू० ७९१) अद्युतत् । वृतुङ् वर्तने । वर्तते वर्तेते वर्तन्ते । वर्तताम् । अवर्तत । ववृते । वर्तिषीष्ट । वर्तिता । वर्तिष्यत ॥ ८५६ वृतादिभ्यः स्यप्स्योर्वा पं पेsनित्वं च १९ ॥ वृतु वृधु शृधु स्यन्दू कृपू' एते वृतादयः । वस्र्त्स्यति । अवर्त्स्यत् । अवर्तिष्ट । परस्मैपदपक्षे । लित्पुषादेर्डः (सू० ७९१ ) अवृतत् ॥ वृधुङ् वृद्धैौ । वर्धते । वर्धेत । वर्धताम् । अवर्धत । ववृधे । वर्धिषीष्ट । वर्धिता । अवर्धिष्यते । अवर्धिष्यत । वर्त्स्यति । अवर्त्स्यत् । अवर्धिष्ट । अवृधत् । शृधुङ पर्दने । शर्धते । शर्धेत । शर्धताम् । अशर्धत । शशृधे । शर्धिषीष्ट । शर्धिता । शर्धिष्यते । अशर्धिष्यत । अशष्टि । • शर्त्स्यति । अशर्त्यत । अशृधत् । स्यन्दू प्रस्रवणे । स्यन्दते । स्यन्देत । स्यन्दताम् । अस्यन्दत । सस्यन्दे । ऊदितो वा (सू० ७५१) स्यन्दिषीष्ट । स्यन्त्सीष्ट । स्यन्दिता - स्यन्ता । स्यन्दिष्यते - स्यन्त्स्यति । अस्यन्दिष्यत - अस्यन्त्स्यत । अस्यन्त्स्यत् । अस्यन्दिष्ट अस्यन्त । पक्षे अस्यदत् । कृपू सामर्थ्ये । गुणः ॥ ८५७ कृपो रो लः २० ॥ कृपो रेफस्थ लो भवति ॥ ऋकारस्य ऌकारो भवति ॥ कल्पते । कल्पेत । कल्पताम् । अकल्पत । चक्लृपे । कल्पिषीष्ट । इडभावपक्षे । 1 1 I 1 1
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy