________________
सू० ८५८-८६७]
भ्वादिषूभयपदिनः ३
१५३
८५८ सिस्योः २१ ॥ उपधाया गुणो न भवति सिस्योरनिटोः परतः ॥ क्लप्सीष्ट । कल्पिता - कल्प्ता । कल्पिष्यते कल्प्स्यते कल्प्स्यति । अकल्पिष्यत । अकल्प्स्यत् । अकल्पिष्ट अक्लृप्त अकुप्साताम् अकुप्सत | अकुपत् । व्यथ दुःखभयचलनयोः । व्यथते । व्यथेत । । व्यथताम् । अव्यथत ।। ८५९ व्यथतेर्णादौ पूर्वस्य संप्रसारणं वक्तव्यम् २२ ॥ विव्यथे । व्यथिषीष्ट । व्यथिता । व्यथिष्यते । अव्यथिष्यत अव्यथिष्ट । रमु क्रीडायाम् । रमते । रमेत । रमताम् | अरमत ॥ ८६० व्याङ्पर्युपेभ्यो रमः पम् २३ ॥ विरमति आरमति परिरमति उपरमति । रेमे । रंसीष्ट । रन्ता । रंस्यते । अरंस्त । अरंसाताम् । अरंसत । विपूर्वः । आदन्तानाम् (सू० ७८८ ) इतीट्सकौ । व्यरंसीत् । व्यरंसिष्टाम् । ञित्वरा संभ्रमे । ञिआवितौ । त्वरते । त्वरेत | त्वरताम् । अत्वरत । तत्वरे । त्वरिषीष्ट । त्वरिता । त्वरिष्यते । अत्वरिष्यत । अत्वरिष्ट । अत्वरिढुं - अत्वरिध्वम् । षह मर्षणे । सहते । सहेत । सहताम् । असहत । सेहे । सहिषीष्ट । सहिता । इषुसह (सू० ७९२ ) इतिवेट् । हो ढः ( सू० २४३ ) । तथोर्ध: ( सू० ७५३ ) टुत्वम् । ढलोपः ॥ ८६१ सहिवहोरोदवर्णस्य २४ ॥ सहिवहोर वर्णस्यौकारादेशो भवति ढलोपनिमित्ते ढकारे परे ॥ सोढा । सहिष्यते । असहिष्यत । असहिष्ट ॥ इति भ्वादि - ष्वात्मनेपदिनः ॥ २ ॥
1
भ्वादिषुभयपदिनः ३
अथोभयपदिप्रक्रिया || राजू दीप्तौ । ऋकार ऋदित्कार्यार्थः । राजतिराजते । राजेत् राजेत । राजतु राजताम् । अराजत् । अराजत। रराज । फणादित्वादेत्वपूर्व लोपौ । रेजतुः रराजतुः । रेजुः -