________________
१५०
सारस्वतव्याकरणम् ।
[वृत्तिः
२
यिष्यते-पणिष्यते । अपणायिष्यत-अपणिष्यत अपणायिष्ट-अपशिष्ट । एवं पन च । कमु कान्तौ ॥ ८४२ कमेः स्वार्थे जिः प्रत्ययो वक्तव्यः ५॥ अनपि तु वा वृद्धिः। सधातुः (सू०७८२) अपगुणौ । अयादेशः । कामयते कामयेत । कामयताम् । अकामयत । कामयांचके-चकमे । कामयिषीष्ट-कमिषीष्ट । कामयिताकमिता । कामयिष्यते-कमिष्यते । अकामयिष्यत-अकमिष्यत । अकामि त इति स्थिते ॥ ८४३ अरद्विश्व ६॥ ज्यन्ताद्धातोभूतेऽर्थे अङ् प्रत्ययो भवति दिवादौ परतः ॥ सेरपवादः । धातोश्च द्वित्वम् ॥ ८४४ : ७ ॥ इडागमवर्जिते अनपि विषये अलोपो भवति ॥ हवः (सू० ७१३) कुहोश्चः (सू० ७४६) ८४५ अङि लघौ हख उपधायाः ८ ॥ अङि सत्युपधाया हखो भवति पूर्वसंबन्धिनोऽकारस्येकारो भवति लघुनि धात्वक्षरे परे ॥ ८४६ लघोर्दीर्घः ९॥ अङि सति हसादेलंघोः पूर्वस्य दी| भवति लघुनि धात्वक्षरे परे ॥ अचीकमत अचीकमेताम् अचीकमन्त । अरभावपक्षे ॥ ८४७ कमेरद्वित्वे वाच्ये १० ॥ज्यन्तत्वाभावान्न दीर्घकारौ । अचकमत । अय गतौ । अयते अयेत । अयताम् आयत ॥ ८४८ परापूर्वेऽयतावुपसर्गरेफस्य लत्वं वाच्यम् ११॥ पलायते । पलायेत । पलायताम् । अपलायत । अयांचके अयामास अयांबभूव । अयिषीष्ट । अयिता । अयिष्यते । आयिष्यत । आयिष्ट । आयिषाताम् । आयिषत । आयिट्वं आयिध्वम् । दय दानगतिहिंसादानेषु । दयते । अयतिवत्प्रक्रिया । घट चेष्टायाम् । घटते । घटेत । घटताम् । अघटत । कुहोश्चः (सू० ७४६) जघटे । घटिषीष्ट । घटिता। घटिष्यते। अघटिष्यत ।अघटिष्ट । ईह चेष्टायाम्। ईहते । ईहेत । ईहताम् । ऐहत । ईहांचक्रे । ईहिषीष्ट । ईहिता ।