________________
सू० ३२६-३३८ ] युष्मदस्मत्प्रक्रिया १२
युष्मदस्मत्प्रक्रिया १२ अथ युष्मदस्मदोः खरूपं निरूप्यते ॥ तयोश्च वाच्यलिङ्गत्वात्रिप्वपि लिङ्गेषु समान रूपम् ॥ अध्ययान्यलिङ्गानि ॥ अलिङ्गे युष्मदस्मदी॥ ३२६ त्वमहं सिना १। सिसहितयोर्युष्मदस्मदोस्त्वमहमित्येतावादेशौ भवतो यथासंख्येन ॥ त्वम् । अहम् ॥ ३२७ युवावौ द्विवचने २ ॥ युष्मदस्मदोर्द्विवचने परे युव आव इत्येतावादेशौ भवतः ॥ ३२८ आमौ ३ ॥ युष्मदस्मदोः पर औ आम् भवति । सवर्णे दीर्घः सह (सू० ५२) युवाम् । आवाम् ।। ३२९ यूयं वयं जसा ४॥ जसा सहितयोर्युष्मदस्मदोयूयं वयमित्येतावादेशौ भवतः ॥ यूयम् वयम् ॥ ३३० त्वन्मदेकत्वे युष्मदम्मदोः ५॥ त्वन्मदित्येतावादेशौ भवत एकत्वे गम्यमाने ॥ ३३१ आम्स्भौ ६ ॥ आ अम्भौ । युष्मदस्मदोप्टेरात्वं भवति अमि सकारे भिसि च परे ॥ अम्शसोरस्य (सू० १२६) त्वाम् माम् । युवाम् आवाम् । त्यादेष्टेरः स्यादौ (सू० १७५) इत्यत्वे कृते शसि दीर्घत्वम् ॥ ३३२ शसो नो वक्तव्यः ७ ॥ युष्मान् । अस्मान् । वन्मदेकत्वे (सू० ३३०) ॥ ३३३ ए टाङयोः ८ ॥ युष्मदस्मदोष्टेरत्वं भवति टा ङि इत्येतयोः परयोः ॥ ए अय् (सू० ४१) त्वया मया । युवावौ द्विवचने (सू० ३२७) अद्धि (सू० १३१) युवाभ्याम् आवाभ्याम् ।आम्स्भौ (सू० ३३१) युष्माभिः अस्माभिः॥ ३३४ तुभ्यं मह्यं उया ९॥ ड्या सहितयोयुष्मदस्मदोस्तुभ्यं मह्यं इत्येतावादेशौ भवतः ॥ तुभ्यम् । मह्यम् । युवाभ्याम् आवाभ्याम् ॥ ३३५ भ्यस् श्भ्यम् १० ॥ युष्मदस्मदोः परो भ्यस् इभ्यं भवति । १ सर्वत्र प्रयोज्यानीत्यर्थः । २ त्रिषु लिङ्गेषु समाने ।