________________
(७०
सारस्वतव्याकरणम् ।
[वृत्तिः
१
शकारो भकारादेशव्यावृत्त्यर्थः । तेनात्वैत्वे न भवतः । त्यादेष्टेः (सू० १७५) युष्मभ्यम् अस्मभ्यम् ॥ ३३६ ङसिभ्यसोः तुः ११ ॥ पञ्चम्या उसिभ्यसोः स्तुर्भवति । शकारः सर्वादेशार्थः । उकार उच्चारणार्थः । त्वत् मत् । युवाभ्याम् । आवाभ्याम् । त्यादेष्टेः (सू० १७५) युष्मत् अस्मत् ॥ ३३७ तवमम ङसा १२ ॥ ङसा सहितयोर्युष्मदस्मदोस्तव मम इत्येतावादेशौ भवतः ॥ तव मम । युवावौ द्विवचने (सू० ३२७) ओसि (सू० १३८) । ए अय् (सू० ४१) युवयोः आवयोः ॥ ३३८ सामाकम् १३ ॥ युष्मदस्मदोः परः सामाकं भवति ॥ त्यादेष्टेः (सू० १७५) युष्माकम् अस्माकम् ।त्वन्मदेकत्वे (सू० ३३०)। ए टाड्योः (सू० ३३३) ए अय् (सू० ४१) त्वयि मयि । युवयोः आवयोः । आम्स्भौ (सू० ३३०) युष्मासु अस्मासु ॥ अथानयोर्गौणत्वे रूपविशेषो निरूप्यते ॥ यदा एकत्वे द्वित्वे च युष्मदस्मदी समासार्थस्तु अन्यसंख्यस्तदा त्वन्मदोः युवावौ च भवतः । वैपरीत्ये तु न स्तः । सिजसूडेङस्सु परेषु ये आदेशास्ते सदा भवेयुः । तथा चोक्तं पाणिनीये ॥
समस्यमाने ब्येकत्ववाचिनी युष्मदस्मदी । समासार्थोऽन्यसंख्यश्चेद्युवावौ त्वन्मदावपि ॥ ४५ ॥ सिंजस्डेङस्सु परत आदेशाः स्युः सदैव ते। त्वाही यूयवयौ तुभ्यमयौ तवममावपि ॥ ४६ ॥ एते परत्वाद्धाधन्ते युवावौ विषये स्वके । स्वन्मदावपि बाधन्ते पूर्व विप्रतिषेधतः ॥४७॥ व्येकसंख्यः समासार्थो बह्वर्थे युष्मदस्मदी ।
तयोरव्येकतार्थत्वान्न युवावौ त्वमौ नच ॥४८॥ १ स्तो युवावौ समावपि इति पाठः। २ कौमुद्यां सुजस्ढे इति पाठः ।