________________
६८
सारस्वतव्याकरणम् । [वृत्तिः १ २१९ ) । नश्चापदान्ते झसे (सू० ९५) जगन्ति । पुनरपि ।। महत्-महद् महती । सम्महतो (सू० २९३ ) । नश्वापदान्ते झसे ( सू० ९५) महान्ति । पुनरपि ॥ सकारान्ताः पयस्वचस्ते. जस्यशस्प्रभृतयः ॥ पयः पयसी। सम्महतो (सू० २९३ ) पयांसि । पुनरपि ॥ वचः वचसी वचांसि । पुनरपि ॥ यशः यशसी यशांसि । पुनरपि ॥ तेजः तेजसी तेजांसि । पुनरपि इत्यादि । अदसूशब्दस्य स्यमोटुंकि कृते स्रोविसर्गः (सू० १२४ ) अदः द्विवचनादौ टेरत्वे कृते मत्वोत्वे च कृते । अमू । त्यादेष्टेरः स्यादौ ( सू० २८७ ) । दस्य मः (सू० ३०६) । जश्शसोः शिः (सू० २१७)। नुमयमः (सू० ११९)। नोपधायाः (सू० २२१)। मादू (सू० ३०७) अमूनि । पुनरपि । अमुना । अद्भि (सू० १३१)। मादू ( सू० ३७ ) अमूभ्याम् । एस्भि बहुत्वे ( सू० १३५) एरी बहुत्वे (सू० ३०८) अमीभिः । सर्वोदेः सट् (सू० १४८)। ए ऐ ऐ ( सू० ४४ )। मादू (सू० ३०७) अमुष्मै अमूभ्याम् अमीभ्यः । ङसिरत् । (सू० १३६) । अतः ( सू० १४९) सवर्णे दीर्घः सह ( सू० ५२ ) मादू (सू० ३०७) अमुष्मात् अमूभ्याम् अमीभ्यः । उस्स्य (सू० १३७)। मादू (सू० ३०७) अमुष्य । ओसि (सू० १३८)। ए अय् (सू० ४१ ) अमुयोः । सुडामः । (सू० १५० ) । एस्भि बहुत्वे (सू० १३५) अमीषाम् । डि स्मिन् (सू० १५१) अमुष्मिन् अमुयोः । एस्भि बहुत्वे (सू० १३५ ) किलात् । (सू० १४१) अमीषु ॥ इति हसान्तनपुंसकलिङ्गप्रक्रिया ॥ ११ ॥